________________
460444453
प्रक०
॥३॥
स्थानिवद्भावाभावार्थम । तेनावोभोदित्यत्र न वृद्धिः ॥ अवौ दाधी दा॥ ३।३।५॥ अवावित्यवितौ। दो दे डुदांग दोंच् इति चत्वारो दारूपाः । ट्वें दुधांय इति द्वौ धारूपौ । दाधारूपोपलक्षितस्य दासंज्ञावचनात् दोच दें ट्धे इत्येतेषां शिति दाधारूपाभावेऽपि दासंज्ञा सिद्धा। दीडो दारूपस्य बहिरङ्गत्वान्नानोपादास्त इत्यत्रेत्वं न । अवाविति किम्? । दांव. दातं बर्हिः । दैव् अवदातं मुखम् ॥ भवतेः सिलुपि ॥ ४।३।१२॥ न गुणः । विनिर्देशाद्यङ्लुपि न प्रतिषेधः । श्तिवा शवानुबन्धेन निर्दिष्टं यद्गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लु- | पीति न्यायात् । अबोभोत् । अड्वातोरित्यडागमे । अभूदद्य वृष्टिः । अभूताम् । अभू अन् इति स्थिते पातोरिवोंघर्णस्येत्युवादेशे ॥ भुवो वः परोक्षायतन्योः ॥ ४॥ २॥ ४३ ॥ उपान्त्यस्योत् । अभूवन् । अभूः । अभूतम् । अभूत । अभूवम् । अभूव । अभूम ॥ परोक्षे॥ ५।२।१२ ॥ भूतानद्यतने वर्तमानाद्धातोः परोक्षा । अ. क्षाणां परः परोक्षः । अत एव निर्देशात्साधुः । यद्यपि साध्य वेनानिष्पन्नात्वात्सर्वोऽपि धात्वर्थः परोक्षस्तथापि प्रत्यक्षसाधनत्वेन तत्र लोकस्य प्रत्यक्षवाभिमानः । यत्र स नास्ति स परोक्षः । भू णव् इति स्थते । ॥ द्विधातुः परोक्षाके प्राक्तु स्वरे स्वरविधेः ॥४१॥ परोक्षायां डे च परे धातुदिः स्वरादौ तु द्वित्वनिमित्त स्वरस्य कार्यात्मागेव । वेत्तेः किदिति कित्त्ववचनादामि परोक्षा कार्य न । धातुरिति किम् ? । प्राशिश्रियत् । मागिति किम्? । निनाय । स्वर इति किम्? । जेत्रीयते । स्वरविधेरिति किम्? । शुशाव । जग्ले मम्ले इत्यनिमित्तकमात्वम्। अधिजगे इति विषये आदेशः। | प्राक् तु स्वरे स्वरविधेरित्याद्विवचनमधिकारः । अन्यथा आटिटदित्यादि न सिध्यति । भूस्वपोरदुतौ ॥ ४११७.
॥परोक्षायां द्वित्वे पूर्वस्य क्रमात्स्याताम् । केचितु कर्तर्येव भुवोऽकारमिच्छन्ति ॥ द्वितीयतुर्ययोः पूौं ॥४१ । ४२ ॥ द्वित्वे पूर्वयोर्यथासङ्ख्यम् ॥ नामिनोऽकलिहलेः ॥ ४ । ३ । ५१ ॥ धानोर्नाम्ना वा णिति वृद्धिः । | कलिहलिवर्जनान्नाम्नोऽपि । तेनापीपटत् । अलीलघत् । कलिहलिवर्जनं किम्? । अचकलत् । अजहलत् । अन्ये तु नाग्नो
RCHISECRECE
460E%
E0
%AE%
%ACAEG
E