________________
5555
॥३।३।९॥ दिस्योरिकार उच्चारणार्थः। एताः शितः ॥ ३।३। १०॥ अद्यतनी,दि ताम् अन् , सि तम् त, अम् व म, त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि ॥३।३।११। परोक्षा-णव अतुस उस्, थव् अथुम् अ, ण व म, ए आते इरे, से आथे ध्वे, ए वहे महे ।। ३ । ३ । १२॥ आशी:-क्यात् क्यास्ताम् क्यासुस्, क्यास क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म, सीष्ट सीयास्ताम् सीरन् , सीष्ठान सीयास्थाम् सीध्वम्, सीय सीवहि सीमहि ॥ ३।३। १३ ॥ ककारः कित्कार्यार्थः । श्वस्तनी-ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस्, ता तारौ तारस, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे ॥ ३।३।१४ ॥ भविष्यन्ती-स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस्, स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये स्यावहे स्यामहे ॥ ३ । ३।१५ ॥ क्रियातिपत्तिः-स्यत् स्यताम् स्यन, स्यस् स्यतम् स्यत, स्यम् स्याव स्याम, स्यत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्यावहि स्यामहि ॥३। ३। १६ ॥ नवाद्यानि शतृक्कसू च परस्मैपदम् ॥ ३।३।१९॥ सर्वासां विभक्तीनाम् ॥ पराणि कानानशी चात्मनेपदम् ॥३॥३॥२०॥ तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाश्च ॥३।३।२१॥ आत्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः सकर्मकाद्धातोः कर्मणि अकर्मकादविवक्षितकर्मकाच भावे स्युः । सकर्मका अप्यविवक्षितकर्माणः कर्वेकनिष्ठव्यापारा अकर्मकाः। 3 तेनैषां भावेपि प्रयोगः |सकर्मकादपि क्लीबे क्तमिच्छन्त्येके । भावे च युष्मदस्मत्सम्बन्धनिमित्तयोःकर्तृकर्मणोरभावात्प्रथममेव त्रयं भवति । साध्यरूपत्वात्संख्यायोगो नास्तीत्यौत्सर्गिकमेकवचनमेव । पाक: पाको पाकाः। पाको वर्तते पार्क करोतीत्यादौ च अनव्ययकुदभिहितो भावो द्रव्यवत्प्रकाशते इति संख्यया लिङ्गेन कारकैश्च युज्यते । त्यादिनेवाव्ययेनाभिहि-13 तस्त्वसत्वरूपत्वाम युज्यते । उष्ट्रासिका आस्यन्ते इति तु बहुवचनं कुदभिहितेनाभेदोपचाराद्भवति । इडितः करि
CATEGGEOGUEENSHRUGAUR