SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ हेमप्रभा १६० न्वीत्यर्थः ॥ क्रियान्तर इति किम् ? । अहरत्यस्येषून् गतः ॥ नाम्ना ग्रहादिशः || ५ | ४ | ८३ ॥ द्वितीयान्तेन योगे तुल्यकर्तृकार्याडातोः सम्बन्धे णम्बा || नामानि ग्राहं नामग्राहमाह्वयति । नामान्यादेश नामादेशं ददाति ॥ नाम गृहीत्वा ददाति ॥ कृगोऽव्ययेनानिष्टोक्तौ तवाणी ||५|४|८४ ॥ तुल्यकर्तृकार्याद्योग गम्यायां धातोः सम्बन्धे || ब्राह्मण ! पुत्रस्ते जातः वृषल? किं तर्हि नीचैः कृत्वा नीचैः कृत्य नीचैः कारं कथयसि । उचैर्नाम प्रियमाख्येयम् | ब्राह्मण ! कन्या ते गर्भिणी किं तर्हि वृषल? उच्चैः कृत्वा उच्चैः कृत्य उचैः कारं कथयसि । नीचैनमा प्रियमाख्येयम् । अव्ययेनेति किम् ? | ब्राह्मण ? पुत्रस्ते जातः किं तर्हि वृषल? मन्दं कृत्वा कथयसि । वाधिकारेणैव वक्षे त्वायाः सिद्धौ समासार्थं तद्विधानम् | त्वा चेत्यकृत्वा णमविधानमुत्तरत्रोभयानुवृत्यर्थम् ॥ तिर्यचापवर्गे ॥ ५ । ४ । ८५ ॥ अव्ययेन योगे गम्ये तुल्यकर्तृकार्थात् क्त्वाणमौ ॥ अपवर्गः क्रियासमाप्तिः समाप्तिपूर्वको वा विरामः । तिर्यक्कृत्वा तक्कृत्य तिर्यक्कारमास्ते । अपवर्ग इति किम् ? । तिर्यक्कृत्वा काष्ठं गतः ॥ स्वाङ्गतश्च्व्यर्थे नानाविनाधार्थेन भुवश्च ॥ ५ । ४ । ८६ ॥ योगे तुल्यकर्तृकार्यात् कृगो धातोः सम्बन्धे तत्वाणमौ ॥ मुखतोभूत्वा मुखतोभूय मुखतोभावमास्ते । मुखतः कृत्वा मुखतः कृत्य मुखतः कारमास्ते । पार्श्वोभूत्वा पार्श्वतोभूय पार्श्वनोभावं शेते । पार्श्वतः कृत्वा पार्श्वतः वृत्य पार्श्वतः कारं शेते । नानाभूत्वा नानाभूय नानाभावं गतः । नानाकृत्वा नानाकृत्य नानाकारं गतः । विनाभूत्वा विना भूय विना भावं गतः । विना कृत्वा विना कृत्य विनाकारं गतः । द्विधा भूत्वा द्विधाभूय द्विघाभात्रमास्ते इत्यादि । धार्था घाघमोघाध्यमञः । धणस्तु प्रकारविचा लवदर्थत्वेनाधार्थत्वादव्ययाधिकाराच निरासः । अस्यापि ग्रहणमित्यन्ये । व्यर्थेति किम् ? । नाना कृत्वा भक्ष्याणि भुङ्क्ते । एवं द्वैधं भूत्वेत्याद्यपि ॥ तूष्णीमा ॥ ५ । ४ । ८७ || योगे तुल्यकर्तृकार्थाद् भवतेर्धातोः सम्बन्धे तवाणमी । तूष्णींभूत्वा तूष्णींभूय तूष्णीं भावमास्ते ॥ आनुलो उणादयः प्रक० १६०
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy