________________
करणेभ्यः ॥ ५ । ४ । ६४ ॥ इनस्तस्यैव सम्बन्धे णभ्वा ॥ पाणिघात कुडघमाहन्ति । बहुवचनं व्याप्त्यर्थम् । तेन करणपूर्वार्द्ध सार्थादपि हन्तेः अनेनैव णम् ॥ तथा च नित्यसमासस्तस्यैवानुप्रयोगथ सिद्धयति । अस्युपघातमरीन् हन्ति ॥ स्वस्नेहनार्थात्पुषपिषः ॥ ५ । ४ । ६५ ॥ करणवाचिनो यथासंख्यं तस्यैव सम्बन्धे णम्वा | स्वपोषं पुsofia | एवमात्मपोष । धनपोषम् । उदपेषं पिनष्टि । एवं घृतपेषम् । क्षीरपेषम् | हस्तार्थाद् ग्रहवतिंवृतः ॥ ५ । ४ । ६६ ।। करणवाचिनस्तस्यैव सम्बन्धे णम्वा ।। हस्तग्राहं गृण्डाति । करग्राहम् । स्वर्त्त वर्त्तयति करवत्र्तम | हस्तव वर्त्तते । अण्यन्तान्नेच्छन्त्येके । बन्धेननि ॥ ५ । ४ । ६७ ॥ बन्धिः प्रकृतिर्नामविशेषणं च । बन्धेबन्ध्यस्य बन्धनस्य यन्नाम तद्विषयात्करणवाचिनः पराद् बन्धेस्तस्यैव सम्बन्धे णम्वा || क्रोञ्चबन्धं बद्धः । चण्डालिकाबन्धं दीनबन्धनामधेयानि । केचित्तूपपदप्रकृतिप्रत्ययसमुदायस्य सज्ञात्वं मन्यन्ते । तमतसंग्रहार्थं नाम्नीति प्रत्ययान्तोपाधित्वेन व्याख्येयम् || आधारात ॥ ५ । ४ । ६८ ।। बन्धेस्तस्यैव सम्बन्धे णम्वा ॥ चक्रबन्धं बडः । चा रकबन्धं बडः । बहुलाधिकारादिह न । ग्रामे बद्धः । हस्ते बद्धः || कर्तुर्जीव पुरुषान्नश्वहः || ५ | ४ | ६९ ॥ य थासंख्यं तस्यैव सम्बन्धे णम्वा || जीवनाशं नश्यति । जीवन्नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषः प्रेष्यो भून्वा वइतीत्यर्थः । कर्त्तुरिति किम् ? । जीवेन नश्यति ॥ ऊध्वत्पूिः शुषः ॥ ५ । ४ । ७० ॥ कर्तृवाचिनस्तस्यैव सम्बन्धे जम्बा || पूरितिनिर्देशाद् देवादिको न चौरादिकः ॥ ऊर्ध्व पूरं पूर्यते । ऊर्ध्वशोषं शुष्यति || व्याप्याच्चेवात् ॥ ५ ॥ ४ । ७१ || व्याप्यात् कर्तुवोपमानात् पराडातोस्तस्यैव सम्बन्धे णम्वा ॥ सुवर्णनिधायं निहितः । सुवर्णमित्र निहित इत्यर्थः । काकनाशं नष्टः ॥ उपात्किरो लबने ॥ ५ । ४ । ७२ ॥ अन्यस्य धातोः सम्बन्धे || कवन इति वचनाचस्यैवेति निच । उपस्कारं मद्रका लुनन्ति । विक्षिपन्तो लुनन्तीत्यर्थः । लवन इति किम ? । उपकीय याति ॥