________________
हेमप्रभा
१५६
अतिदुर्लम्भम् । अतिसुलम्भः । अतिदुर्लम्भः । अविद्युदुर्लभम् । अनिसुदुर्लभः । उपसर्गादेव सुदुर्भ्य इति नियमार्थं वचनम् । तेनेह न, सुलभम् । दुर्लभम् ॥ च्व्यर्थे कर्माध्याद्भगः || ५ |३ | १४० ॥ कृच्छ्राकृच्छ्रार्थेभ्यो दुःखीयथासंख्यं । दुराद्यंभवम् । स्वायंभवम् । ईषदाद्यं भवं भवता । दुरायंकरः । स्वार्थंकरः । ईषदाढर्थंकरस्त्वया || शास्युविशिषृषिमृषातोऽनः || ५ | ३ | १४१ ॥ कृच्छ्राकृच्छ्रार्थदुःस्वीषत्पूर्वात् । दुःशासनः । सुशासनः । ईषच्छासमः । दुर्योधनः । सुयोधनः ॥ ईषयोधनः । दुर्दर्शनः । दुघर्षणः । दुर्भषणः । कथमीषद्दरिद्र इति । अनप्रत्यय विषयेऽकारस्य लोपेनादन्यत्वाभावात् खलेव । णिन् चावश्यका धर्मण्ये | ५ | ४ | ३६ || गम्ये कर्त्तरि वाच्ये कृत्याः अवश्यंकारी अवश्यंहारी । अवश्यं गेयो गीतस्य । शर्तदायी । गेयो गाथानाम् ॥ निषेधेऽलखल्वोः तवा ॥ ५ । ४ । ४४ ।। उपपदयोर्धातोर्वा । अलंकृता । खलुकृत्वा । पक्षे अलं रुदितेन । निषेध इति किम् ? | अलङ्कारः खियाः । अलंखल्वोरिति किम् ? | मा कारि भवता || परावरे ॥ ५ । ४ । ४५ ॥ गम्ये धातोः क्त्वा वा || अनञः क्वेयपू ।। ३ । ३ । १५४ ॥ अव्ययात्पूर्वपदात्परस्योत्तरपदस्य । अतिक्रम्य नदीं पर्वतः । नद्याः परः पर्वत इत्यर्थः । अप्राप्य नदीं पर्वतः । नद्या अर्वाक् पर्वत इत्यर्थः । अनत्र इति किम् ? अकृत्वा कृत्वा । उत्तरपदस्येत्येव । अलंकृत्वा ॥ निमील्यादिमेङस्तुल्यकर्तृके ।। ५ । ४ । ४६ ॥ धातोः सम्बन्धे तत्वा वा. अक्षिणी निमील्य इसति । सुखं व्यादाय स्वपिति ॥ मेङो वा मित् ॥ ४ । ३ । ८८ ॥ यपि मे स्वभावाद् व्यविहार एव वर्त्तते इति नान्यैरिव व्यतिहारग्रहणं कर्त्तव्यम् । अपमित्य याचते । अपमाय । पूर्वं याचते पश्चादपमयते इत्यर्थः । याचेस्तु पूर्वकालेऽपि कत्वा न । मेङः परकालभाविन्या क्त्वया याचि प्राक्कालस्योक्तत्वात् । पक्षे तु याचित्वा अपमयते । अपमातुं याचते तुल्यकर्तृक इति किम् ? । चैत्रस्याक्षिनिमीलने मैत्रो इसवि ॥ प्राक्काले ॥ ५ ॥ ४ ॥ ४७ ॥
परम
उणादयः प्रक०
१५६