SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ हेमप्रभा १५५ भावाकरिति च निवृत्तम् ॥ हसितं छात्रस्य । क्लीव इति किम् ? | हसः । हासः || अनट् || ५ | ३ | १२४ ॥ क्लीबभावे धातोः ॥ गमनं छात्रस्य ॥ ष्ठिवसिवोऽनटि वा ।। ४ । २ । ११२ ॥ दीर्घः । निष्ठीवनम् । निष्ठेवनम् । सीवनम् । सेवनम् । यत्कर्मस्पर्शास्किङ्गसुखं ततः ॥ ५|३|१२५ || येन कर्मणा संस्पृश्यमानस्य कर्त्तुरङ्गस्य सुखमुत्पद्यते ततः कर्मणः पराद्धातोः क्लीवेऽनट् ॥ पयःपानं सुखम् । कर्मेति किम् ? । तूलिकाया उत्थानं सुखम् । स्पर्शाfafa कि ? | अग्निकुण्डस्योपासनं सुखम् । कत्रिति किम् ? । शिष्येण गुरोः स्नपनं सुखम् । न गुरुः कर्त्ता किन्तु कर्म । अङ्गेति किम् ? । पुत्रस्य परिब्बञ्जनं सुखम् । नात्र शरीरसुखम् । किन्तु मानसी प्रीतिः । अन्यथा परपुत्रपरि sos स्यात् । सुखमिति किम ? कण्टकानां मर्दनम् । सर्वत्रासमासः प्रत्युदाहार्यः । अथवा तत इति सप्तम्यन्तातनुः । तस्मिन् कर्मण्यभिधेये सामथ्यत्कर्तुः पराद्धातोरनट् । राज्ञा भुज्यन्ते राजभोजनाः शालयः ॥ रम्यादिभ्यः कर्त्तरि || ५ | ३ | १२६ ॥ अनट् । रमणी । कमनी । इध्मब्रश्वनः ॥ कारणम् ॥ ५ । ३ । १२७ ॥ कुगः कर्त्तनट् वृद्धिश्व स्यात् । कारणम् । भुजिपत्यादिभ्यः कर्मापादाने || ५ | ३ | १२८ ॥ यथासंख्यमनट् । भुज्यते इति भोजनम् । एवं निरदनम् । प्रपतत्यस्मादिति प्रपतनः । अपादानम् । बहुवचनं प्रयोगानुसरणार्थम् ॥ करणाधारे || ५ | ३ | १२९ ॥ धातोरनट् । एषणी । लेखनी । गोदोहनी । सक्तुधानी || पुंनानि वः ॥ ५ ॥ ३ ॥ १३० ॥ गम्ये धातोः करणाधारयोः || एकोपसर्गस्य च वे ॥ ४ । २ । ३४ ॥ अनुपसर्गस्य छदेण ह्रस्वः । प्रच्छदः । छदः । एकोपसर्गस्य चेति किम् ? । समुपच्छादः । पुमिति किम् ? । विचयनी । नाम्नीति किम् ? प्रहरणो दण्डः ॥ गोचरसंचरवहव्रजन्यजखलापणनिगमवक भगकषाकपनिकषम् ॥ ५ । ३ । १३१ ॥ एते करणाधारयोः पुंनाम्नि घमत्ययान्ता निपात्यन्ते । गावश्चरन्त्यस्मिन् गोचरः । संचरः । वहः । व्रजः । व्यजः । उणादयः प्रक० १५५
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy