________________
तिसृणी । मियतिसृणि ॥ वान्यतः पुमांष्टादौ स्वरे ॥ १ । ४ । ६२ ॥ नाम्यन्तो नपुंसकः । प्रियतिस्त्रा । प्रियतिसृणा । प्रियतिसृणाम् । शब्दा द्विविधाः । दध्यादिवत् केचित्स्वतो लिङ्गभाजः । परे गुणक्रियादिप्रवृत्तिनिमित्ताः । पटुचिकीवदयस्तु विशेष्यानुरूपलिङ्गभाजः । वारि । हे वारे । हे वारि । ग्रामणि । ग्रामण्या । ग्रामणिना । ग्रामण्याम् । ग्रामणीनाम् । एवं सुधिमध्यादयः । मरि । एकदेशविकृतस्यानन्यत्वादात्वे | मराभ्याम् । परीणाम् । मराणाम् इति केचित् ॥ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् ॥। १ । ४ । ६३ ॥ नाम्यन्तस्य नपुंसकस्य टादौ स्वरे । दना । विशेषविधानात्परोऽपि नागमोऽनादेशेन बाध्यते । प्रियदना नरेण । नात्र कच् । समासान्तविधेरनिसत्वात् । अस्थि । सक्थि । अक्षि । मधु । त्रपु । पटु । पटवे । पटुने । शसादौ सानुशब्दस्य स्नूनि सानूनि इति केचित् । भियकोष्टु । प्रियक्रोष्ट्रा । प्रिय'क्रोष्टुना । अतिसु । अतिगवा । अतिगुना । एवं प्रसूनुप्रभृतयः । कर्तृ । हे कर्त्तः । हे कर्तृ । कर्त्रा । कर्तृणा ॥
॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्विचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां स्वरान्ता नपुंसकलिङ्गाः ॥
॥ अथ व्यञ्जनान्ताः पुल्लिङ्गाः ॥
॥ चजः कगम् ॥ २ । १ । ८६ ।। घुटि प्रत्यये पदान्ते च तचासत्परे स्यादिविधौ च पूर्वस्मिन् । घुटस्तृतीय इति गत्वे विरामे वा इति कत्वे सुवाक् । सुवागू | सुवाचौ । सुवाक्षु । कषयोः सः ॥ अश्वोऽनचयाम् ॥ ४ । २ । ४६ ॥ एवोपान्त्यनकारस्य लुक् किति ङिति च । अनर्थायामिति किम् । अशिवोऽतिथिः ॥ अचः ॥ १ । ४ । ६९ ।।