________________
हेमप्रभा.
॥ १५ ॥
॥ अथ स्वरान्ता नपुंसकलिङ्गाः ॥
॥ अतः स्यमोऽम् ॥ १ । ४ । ५७ ॥ नपुंसकस्य । कुलम् २ । हे कुल । अत्रामादेशे सति यदेतः स्यमोरिति लुक् । तत्सम्बन्धिविज्ञानाभेह । भियकुलः पुमान् । अमोऽकारोऽतिजरसमित्याद्यर्यः । अतः किम् । पयः अम्ग्रहणमुत रार्थम् ॥ औरीः ॥ १ । ४ । ५६ ॥ नपुंसकस्य । कुले २ ॥ नपुंसकस्य शिः ॥ १ । ४ । ५५ ।। जस्शसोः । शकार इत् ।। स्वराच्छौ ॥ १ । ४ । ६६ ॥ नपुंसकात् नोऽन्तः स्यात् ॥ नि दीर्घः ॥ १ । ४ । ८५ ॥ शेषघुट्परे ने परे स्वरस्य दीर्घः । कुलानि २ । शेषं देववत् । एवं धनवनादयः ॥ पञ्चतोऽन्यादेरनेकतरस्य दः ॥ १ । ४ । ५८ ॥ नपुंसकस्य स्ममोः । अन्यत् । अन्यद् । अन्यतरत् । इतरत् । कतरत् । कतमत् । अनेकतरस्येति किम् । एकतरम् । सम्बन्धिविज्ञानात् प्रियान्यम् । सर्वादेरित्येव । अन्यं नाम किश्चित् । अतिजरम् । अतिजरसम् । सनिपातन्यायस्यानित्यत्वाज्जरस् || जरसो वा ॥ १ । ४ । ६० ॥ नपुंसकस्य स्यमोर्लुप् । अतिजर: २ । अतिजरसी । अतिजरे २ । शौ परत्वाज्जरस् || घुटां प्राकू ।। १ । ४ । ६६ ।। स्वरात् परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ घुद्भ्य एव प्राग्नोऽन्तः स्यात् । बहुवचनं जातिपरिग्रहार्थम् । तेन काष्ठतसि ॥ न्स्महतोः ॥ १ । ४ । ८६ ॥ न्सन्तस्य महतव स्वरस्य शेषे घुटि दीर्घः स्यात् । अतिजरांसि अतिजराणि २ शेषं पुंवत् । हृदयम् । हृदये २ । हृदयानि । हन्दि । हृदयानि । उदानि । उदकानि । उद्नेत्यादि । आसनस्यान्तलुकि । आसानि । आसनानि । आस्ना । आस्यशब्दस्यासनादेश इति केचित् ॥ क्लीं ॥ २ । ४ । ९७ ॥ स्वरान्तस्य ह्रस्वः । विश्वपम् ॥ अनतो लुप् ॥ १ । ४ । ५९ ॥ नपुंसकस्य स्वमोः । लुप्करणं स्थानिवद्भावनिषेधार्थम् । तेन यत् तदित्यादि । प्रियत्रि ॥ नामिनो लुगू वा ॥ १ । ४ । ६१ ॥ नपुंसकस्य स्यमोः । प्रियतिट || अनाम् स्वरे नोऽन्तः ।। १ । ४ । ६४ ॥ नाम्यन्तस्य नपुंसकस्य स्यादौ । प्रिय
स्वरान्ताः नपुंसकलिङ्गाः
।। १५ ।।