________________
हेमप्रभा
१५१
च निपातनात् ॥ समुदोऽजः पशौ ॥ ५ । ३ । ३० ॥ भावाकरल् । समजः पशूनाम् । समूह इत्यर्थः । दः पशूनाम् । प्रेरणमित्यर्थः । समुदः इति किम् ? । व्याजः पशूनाम् । पशाविति किम् ? । समाजो नृणाम् ॥ सृग्लहः प्रजाक्षे || ५ | ३ | ३१ ।। यथासङ्ख्यं भावाकरलू । प्रजनो गर्भग्रहणम् । गवामुपसरः । तदर्थं स्त्रीषु पुंसां प्रथमं सरणमुपसर उच्यते । अक्षाणां ग्लहः । ग्रहणमित्यर्थः । निपातनाल्लत्वम् । प्रजनाक्ष इति किम् ? । उपसारो भृत्यै राज्ञाम् ॥ पणेर्माने ।। ५ । ३ । ३२ || भावाकरलू || मूलकपणः । मान इति किम् ? पाणः । सम्मदप्रमदौ हर्षे ॥ ५ । ३ । ३३ ।। भावाकरलन्तौ निपात्येते । सम्मदः प्रमदो वा कोकिलानाम् । हर्ष इति किम् ? | सम्मादः । संप्रान्मद इत्यनुक्त्वा निपातनं रूपनिग्रहार्थम् । तेनेह न । प्रसम्मादः ॥ हनोऽन्तर्धनान्तर्घणौ देशे ॥ ५ । ३ | ३४ || भावाकर्त्रीः । अन्तर्हण्यते ऽस्मिन्नित्यन्नर्घनः अन्तर्घणो वा वाहीकेषु देशविशेषः । अन्तर्घातोऽन्यः । एकेत्वन्तः संहतो देशोऽन्तर्घनः । अभ्यन्तरो देश इति केचित् ॥ प्रघणप्रघाणौ गृहांशे ॥ ५ । ३। ३५ ॥ प्रान्तेर्गृहांशेऽर्थेऽल घणघाणादेशौ च निपात्येते । प्रघणः प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः । निघोडसवानापघनोपनं निमितप्रशस्तगणात्याधानाङ्गासन्नम् ||५|३|३६|| इन्तेर्निघादयो यथासंख्यं नमिताद्यर्थेषु कृतत्वादयोऽलन्ता निपात्यन्ते । समन्ततो मितं तुल्यमविशेषेण वा मितं परिच्छिन्नं निमित्तम् । तुल्यारोहपरिणाहमित्यर्थः । निर्विशेषं निश्वयेन वा हन्यन्ते ज्ञायन्ते इति निघा वृक्षाः । निघाः शालयः । निघावोऽन्यः । उत्कर्षेण हन्यते ज्ञायते इत्युद्धः प्रशस्तः । उद्घातोऽन्यः । गणः प्राणिसमूहः । संहतिः सङ्घः । संघातोऽन्यः । अत्याधीयन्ते छेदनार्थे कुट्टनार्थे वा काष्ठादीनि यत्र तदन्याधानम् । उदूघन्यतेऽस्मिन्निति उद्धनः । काष्ठोदूधनः । ताम्रोधनः । उद्यातोऽन्यः । अङ्गं शरीरावयवः । अपहन्यतेऽनेनेत्यपघनोऽङ्गम् | अपघातोऽ
उणादयः प्रा०
१५१