________________
| अवर्णहविसर्गकवर्गाः कण्ठ्याः । इवर्णचवर्गय शास्तालव्याः । उवर्णपवर्गोपध्मानीयां ओष्ठ्याः । ऋटवर्गरषा मूर्धन्याः । लवर्णतवर्गलसा दन्त्याः । ए ऐ तालव्यौ । ओ ओ ओष्ठ्यो । वो दन्त्योष्ठ्यः । जिह्वामूलीयो जिह्व्यः । नासिक्योऽनुस्वारः । उञणनमाः स्वस्थाननासिकास्थानाः । सपञ्चमान्तस्थो हकार उरस्यः । आस्यमयत्न आन्तरः संरम्भः । स सप्तधा स्पृष्टेषत्स्पृष्टविहृते पद्विवृतविवृततरातिविवृततरातिविवृततमभेदात् । स्पृष्टं करणं वर्याणाम्, ईषत्स्पृष्टमन्त स्थानाम्, वि स्वराणाम्, ईषद्विनं शषसहानाम्, एदोतोर्विवृततरम्, ऐदौतौरतिविवृततरम्, अवर्णस्यातिविद्युततमम् । आस्यग्रहणं] बाह्यनिवृत्त्यर्थम् । ते च विवारसंवारश्वासनादघोषाघोषाल्पप्राणमहा माणोदात्तानुदात्तस्वरितभेदात् एकादश । तत्र महाप्राणस्य, ‘आसन्नः ॥ ७ । ४ । १२० ।। ' इत्यत्रोपयोगोऽन्येषां तु वेदे प्रयोजनमिति न्यासः । द्वितीयचतुर्थी शषसहाश्च महामाणाः ॥ अनन्तः पञ्चम्याः प्रत्ययः ।। १ । १ । ३८ ।। पञ्चम्यर्थाद्विहितोऽन्तशब्दानिर्दिष्टः प्रययः स्यात् ॥ स्यौजसमौशस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुपां त्रपी त्रयी प्रथमादिः ।। १ । १ । १८ ।। इजशटरूपाचेतः ॥ स्त्यादिर्विभक्तिः ॥ १ । १ । १९ ।। सुप्स्यामहिपर्यन्तः स्यात् ॥ तदन्तं पदम् ॥। १ । १ । २० ॥ विभक्त्यन्तं पदं स्यात् ॥ सविशेषणमाख्यातं वाक्यम् ।। १ । १ । २६ ।। प्रयुज्यमानैरप्रयुज्यमानैव विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वाख्यातं वाक्यं स्यात् ॥ धर्मो वो रक्षतु ॥ क्रियार्थो धातुः ।। ३ । ३ । ३ ।। पूर्वापरीभूतावयत्रा साध्यमानलक्षणा क्रियार्थो यस्य स शब्दो धातुः । न प्रादिरप्रत्ययः ॥ ३ । ३ । ४ ॥ प्रादिर्घातोरवयवो न, न चेत् ततः परः प्रत्ययः स्यात् । मादिश्वायन्तर्गणः ॥ चादयोऽसवे ॥ १ ॥ १ । ३० । अव्ययानि स्युः ॥ धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च ॥ ३ । १ । १ ।। सम्बन्धी तदर्थ योती । धातोरिति पञ्चमी षष्ठी च । क्रियायोगे प्रादीनां गतिसंज्ञा च वक्ष्यते । म परा अप सम् अनु अब निस दुस् “ एतौ रान्तावपि ? वि आए नि प्रति परि उप अधि अपि सु उद् अति अभि ।। अ