________________
हेमप्रभा
॥ १ ॥
णिदध्महे ॥ सिद्धिः स्याद्वादात् ।। १ । १ । २ । अधिकारोऽयम् । नित्यानित्याद्यनेकधर्माणामेकवस्तुनि स्वीकारः स्याद्वादः । तस्मात् शब्दानां निष्यचिज्ञेतिय ज्ञेया । एकस्यैव हि ह्रस्वदीर्घादिविषयो नानाकारक संनिपातः सामानाधिकरयं विशेष्यविशेषणभावादयश्च स्याद्वादमन्तरेण नोपपद्यन्ते ॥ लोकात् ॥ १ । १ । ३ ॥ इहानुक्तानां संज्ञानां न्यायानां च वैयाकरणादेः सिद्धिर्भवतीति वेदितव्यम् । वर्गसमान्नायस्य च । तत्र ॥ औदन्ताः स्वराः ।। १ । १ | ४ ॥ अ आ इ ई उ ऊ ऋ ऋ लृ ल ए ऐ ओ औ ॥ एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ १ । १ । ६ ॥ औदन्ताः । मात्रा कालविशेषः ॥ अ इ उ ऋ लृ ह्रस्वाः । आ ई ऊ ऋ ऌ ए ऐ ओ ओ दीर्घाः ॥ आ ३ ई ३ इत्यादयः प्लुताः ते चोदाचानुदात्तस्वरितभेदात् त्रिधा । सानुनासिकनिरनुनासिकभेदेन पुनर्द्विधा । उच्चैरुदाच: । नीचैरनुदात्तः । समाहारः स्वरितः । मुम्बनासिकेनोच्चार्यः सानुनासिकः । मुखेनैव निरनुनासिकश्च । एवम् अइउऋलवर्णानां प्रत्येकमष्टादश भेदाः । सन्ध्यक्षराणां तु द्वादश । ऌकारस्य दीर्घादर्शनात् द्वादशेनि पाणिनीयाः ॥ अनवर्णा नामी ॥ १ | १ | ६ || औदन्ताः ॥ लुदन्ताः समानाः ॥ १ । १ । ७ ॥ ए ऐ ओ औ सन्ध्यक्षरम् ॥। १ । १ । ८ ॥ अं अः अनुस्वारविसर्गी ॥। १ । १ । ९ ।। अकारादुच्चारणार्थे ॥ कादिर्व्यञ्जनम् ॥। १ । १ । १० ।। इपर्यन्तः । कखगघङचछजझन टठडढण तथदधन पफबभम यरलव शवसह । क आदिः कादिरिति अनुस्वारविसर्गयोरपि व्यञ्जनसंज्ञा ॥ अपचमान्तस्यो घुट् ॥ १ । १ । ११ ॥ कादिः ॥ पञ्चको वर्गः ॥ १ । १ । १२ ।। कादिषु मान्तेषु । ते च पञ्च कचटतपसंज्ञकाः ।। आयद्वितविशेषसा अवशेषाः ॥ १ । १ । १३ ।। अन्यो घोषवान् ॥ १ । १ । १४ ।। अघोषेभ्यः कादिः ॥ यरलवा अन्तस्थाः ॥ १ । १ । १५ ।। यलवाः सानुनासिका निरनुनासिकाश्रेति द्विधा ॥ अं अः ँ क ८ प शषसाः शिट् ॥। १ । १ । १६ ।। अकारककारपका उच्चारणार्थः । क ८ पौ वञ्चगजकुम्भ्राकृती । तुल्यस्थानास्यप्रयत्नः स्वः ॥। १ । १ । १७ ।। यत्र पुद्गलस्कन्धस्य वर्णभावापचिस्तत्स्थानम्
संज्ञाप्रक
॥ १ ॥