________________
SMSHOROSC5-ॐॐ
विशरणादौ । सदः सभा भवनं च । अऔपू व्यक्त्यादौ । अनः स्नेहः ॥ पाहावभ्यां पययौ च ॥ ९५३ ॥ पांटू पाने ओहांक त्यागे इत्याभ्यामस प्रत्ययो भवति यथासंख्यं च पय् छ इत्यादेशावनयोर्भवतः । पयः क्षीरं जलं च । शः अनन्तरातीते दिने ॥ छदिवहिभ्यां छन्दोधौ च ॥ ९५४ ॥ छदण संवरणे वहीं प्रापण इत्याभ्यामम् प्रत्ययो यथासंख्यं चानयोः छन्द ऊधू इत्यादेशौ भवतः । छन्दः वेदः इच्छा वाग्बन्धविशेषश्च । ऊधः धेनोः क्षीराधारः॥ श्वेः शव च वा ॥९५५ ।। ट्वो श्चि गतिवृद्ध्योरित्यस्मात् अस् प्रत्ययो भवति अस्य च शव इत्यादेशो वा । शवः रोगाभिधानं मृतदेहश्च । शवसी । शवांसि । श्वयः शोफः बलं च । श्वयसी । श्वांसि ॥ विश्वादिदिभुजिभ्याम् ॥ ॥ ९५६ ॥ विश्वपूर्वाभ्यामाभ्यामम् प्रत्ययो भवति । विदक हाने । विश्ववेदाः अग्निः । भुजंय् पालनाभ्यवहारयोः । । विश्वभोजाः अग्निः लोकपालश्च ॥ चाये? इस्वश्च वा ॥ ९५७॥ चाग पूजानिशामनयोः इत्यस्मात् अस् प्रत्ययो नकारोऽन्तादेशो हस्वश्चास्य वा भवति । चणः चाणचान्नम् । बाहुलकाण्णत्वम् । णत्वं नेच्छन्त्येके ॥ अशेयश्चादिः॥ ९५८॥ अशा भोजने अशौरि व्याप्तावित्यस्मादास प्रत्ययो यकारश्च धात्वादिभवति । यश: महात्म्य-६ म् सत् श्री ज्ञानं प्रतापः कीर्तिश्च । एवं शोभनमश्नाति अश्नुते वा सुयशाः । नागमेवाश्नाति नागयशाः । बृहदेनोऽ. नाति बृहद्यशाः। श्रुत एनोऽश्नाति श्रुतयशाः । एवमन्येऽपि द्रष्टव्याः॥ उषेज च ॥ ९५९ ॥ उघू दाहे इत्यस्मादम् प्रत्ययो जकारश्चान्तादेशो भवति । ओजः बलं प्रभावः दीप्तिः शुक्रं च ।। स्कन्दे: च ॥ ९६० ॥ स्कंद गतिशोषणयोः इत्यस्मात् अस् प्रत्ययो भवति धकारश्चान्तादेशः । स्कन्धः स्वाङ्गम् ॥ अवेर्वा ॥ ९६१ ॥ अव रक्षणादावित्यस्मादस प्रत्ययो धकारश्चान्तादेशो वा भवति । अधः अवरम् । अवः रक्षा ॥ अमे ही चान्तौ ॥ ९६२ ॥ अम गतावित्यस्मादस् प्रत्ययो भकारहकारौ चान्तौ भवतः । अम्मा पानीयम् । अंहः पापम् अपराधः दिनश्च ॥ अदेरन्ध
ॐ ॐex