SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ उणादयः मनिच ज्ञाने इत्यस्मात् च णिदिन् प्रत्ययो भवति । प्रयास्यतीति प्रयायी,प्रतियास्यतीति प्रतियायी । प्रभोत्स्यत इति हेमप्रभा प्रबोधी प्रतिबोधी बालादिः॥ प्रात् स्थः ॥९२४ ।। अपूर्वात् ष्ठां गतिनिवृत्तावित्यस्माणिदिन् प्रत्ययो भवति । प्र६ स्थास्यते इति प्रस्थायी गन्तुमनाः ॥ ९२४ ॥ परमात कित् ।। ९२५ ॥ परमपूर्गत तिष्ठतेः किदिन् प्रत्ययो भवति । । परमे पदे तिष्ठतीति परमेष्ठी अदादिः । भीरुष्ठानादित्वात षत्वम्, सप्तम्या अलु च ॥ पथिमन्धिभ्याम् A ॥ ९२६ ।। आभ्यां किदिन् प्रत्ययो भवति । पथे गतौ । पन्थाः मागः । पन्थानौ। पन्थानः । पथिपियः । मन्थश् विलोडने । मन्थाः क्षुब्धः वायुः वज्रश्च । मन्थानौ । मन्थानः । मथिपियः ॥ होमिन् ॥९२७। हुंक दानादनयोरित्यस्मात् मिन् प्रत्ययो भवति । होमी ऋत्विक घृतं च ॥अभुक्षिनक् ॥ ९२८ ॥ ऋक् गतावित्यस्मात भुलिनक् प्रत्ययो भवति ॥ ऋभुक्षा इन्द्रः । ऋभुक्षाणौ ऋभुक्षाणः ॥ अदेस्त्रिन् ॥९२७॥ अंक भक्षणे इत्यस्मात् त्रिन् प्रत्ययो भवति । अत्री ऋषिः ॥ पतेरबिन् ॥९३०॥ पल गतावित्यस्मादविन प्रत्ययो भवति । पतत्रो पक्षी ॥आपः श्विर इस्वश्च आपलंद व्याप्तावित्यस्मात क्विप् प्रत्ययो हस्वश्चास्य भवति । आपः अम्भः । स्वभावादबहुत्वम् ॥ ककुनिष्टुबनुदष्टुभः ॥ ९३२ ॥ एते विप्प्रत्ययान्ता निपात्यन्ते । कपूर्वात् स्कुन्नातेः सलोपश्च । के वायुं ब्रह्म च स्कुन्नन्तीति ककुभो दिशः । कुकुप् उष्णिक् छन्दः । व्यनुपूर्वाद स्कुभ्नातेः सः षश्च । त्रिष्टुप् छन्दः । अनुष्टुप् छन्दः । बहुवचनान्निजिविजिविषां क्विः शित् । नेनिक प्रजापतिः। विक् शुचिः । वेविट् चन्द्रमाः ॥ अवेर्मः ॥ ९३३ ॥ अव रक्षणादावित्यस्मान्मः प्रत्ययो भवति । अवतीति ओम ब्रह्म प्रणवश्च सेरितेरम् ॥ ९३४ ।। सुपूर्वादिणं गतावित्यस्मात् अम् प्रत्ययो भवति । स्वयम् आत्मना । नशिनूभ्यां नक्तनूनी च ॥ ९३५ ।। नशीन् अदर्शने गृत स्तवने आभ्यामम् प्रत्ययो नक्त नून इत्यादेशौ चानयोर्भवतः । नक्तं रात्रौ । नूनं वितर्के । स्यतेणित् ॥ ९३६ ।। . १४५
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy