________________
हेममभा | १४०|
वदश्व । पुषं पुष्टो । पोषयित्नुः भर्ता मेघः कोकिलथ । घुपुण् विशब्दने । घोषयित्नुः कोकिलः शब्दश्व | गदणू गर्जे । गदयित्नुः पर्जन्यः वावदूकः भ्रमरः कामश्च । मदेच् हर्षे । मदयित्नुः मदिरा सुवर्णम् अलंकारथ । टु नदु समृtet | नन्दयित्नुः पुत्रः आनन्दः प्रमुदितश्च । गढ सेचने । गढयित्नुः बलाहकः । मडु भूषायाम् । मण्डयित्नुः मण्डfear कामुक | जनैचि प्रादुर्भावे । जनयित्नुः पिता । स्वनण् गर्जे । स्तनयित्नुः मेघः मेघगर्जितं च ॥ कस्यतिंस्वामि ॥ ७९८ || आभ्यां किदिपुः प्रत्ययो भवति । कस गतौ । कसिपुः असनम् ऋक् गतौ । रिपुः शत्रुः ॥ कम्यमिभ्यां बुः ।। ७९९ || आभ्यां वुः प्रत्ययो भवति । कमूद कान्तौ । कम्बुः शङ्खः । अम । नी ॥ अभ्ररमुः ॥ ८०० || अभ्र गतावित्यस्मादमुः प्रत्ययो भवति । अभ्रमुः देवहस्तिनी ॥ यजिशुन्धिदहिद सिजनिमनिभ्यो युः ॥ ८०१ ॥ एभ्यो युः प्रत्ययो भवति । यजीं देवपूजादौ । यज्युः अग्निः अध्वर्युः यज्वा शिष्यथ । शुन्धू शुद्धौ । शुन्ध्युः अग्निः आदित्यः पवित्रं च । दहं भस्मीकरणे । दद्युः अग्निः । दसूच् उपक्षये । द
-
चौरः । जनैचि प्रादुर्भावे । जन्युः अपत्यं पिता वायुः प्रादुर्भावः प्रजापतिः प्राणो च । मनिच् ज्ञाने । मन्युः कुपा क्रोधः शोकः क्रतुश्च ॥ भुजेः कित् ।। ८०२ भुजंपू पालनाभ्यवहारयोः इत्यस्मात् कित् युः प्रत्ययो भवति । भुज्युः अग्निः आदित्यः गरुडः भोगः ऋषिव || सर्तेरय्वन्यू || ८०३ || सं गतावित्यस्मात् अयु अन्यु इति प्रत्ययौ भवतः । सरः नदी वायुश्च । दीर्घान्तमिममिच्छत्येके । सरयूः । श्लिष्टनिर्देशात्तदपि संग्रहोत्रम् | सरण्युः मेघः अश्विनोर्माता समेघो वायुश्च ॥ भूक्षिपिचरेरन्युक् || ८०४ || एभ्यः किदन्युः प्रत्ययो भवति । भू सत्तायाम् । भुवन्युः ईश्वरः अग्निश्च । क्षिपत् प्रेरणे । क्षिपण्युः वायुः वसन्तः विद्युत् अर्थः कालश्च । चर भक्षणे च । चरण्युः वायुः ॥ मुत्यु || ८०५ || मृत् प्राणत्यागे इत्यस्मात् कित् त्युः प्रत्ययोः भवति । मारयतीति मृत्युः कालः मरणं च ॥
उणादयः मक० ॥
॥१४०॥