________________
हेममभा
| १३९।
निवेशभूमिश्च ॥ पः पीप्यौ च वा ॥ ७७५ ॥ पां पान इत्यस्मात् तुन् प्रत्ययो भवति अस्य च पीपि इत्यादेशौ वा भवतः । पीतः आदित्यः चन्द्रः हस्ती कालः चक्षुः बालघृतपानभाजनं च । पितुः प्रजापति: आहारथ । पातुः रक्षिता ब्रह्मा च ॥ आपोऽप् च ॥ ७७६ || आप्लंद व्याप्तावित्यस्मात्तन् प्रत्ययोऽस्य चापू इत्यादेशो भवति । अप्तुः देवताविशेषः कालः याजकः यज्ञयानिश्च ॥ अभ्यर्तेः कित् ॥ ७७७ ॥ आभ्यां कितुन् प्रत्ययो भवति । अऔपू व्यक्त्यादिषु । अक्तुः इन्द्रः । विष्णुः रात्रिश्व । ऋकु गतौ । ऋतु: हेमन्तादिः स्त्रीरजः तत्कालश्च ॥ चायः केच ॥ ७७८ ॥ चायपूजानिशामनयोः इत्यस्मात्तन् प्रत्ययोऽस्य च के इत्यादेशो भवति । केतुः ध्वजः ग्रहश्च ॥ वहिमहिगुह्येधिभ्योऽतुः ॥ ७७९ || एभ्योऽतुः प्रत्ययो भवति । वहीं प्रापणे । वहतुः विवाहः अनड्वान् अग्निः कालय | मह पूजायाम् । महतुः अग्निः । गुडौग संवरणे । गूहतुः भूमिः । एषि वृद्धौ । एधतुः लक्ष्मीः पुरुषः अग्निश्च ॥ कृलाभ्यां कित् ॥ ७८० || आभ्यां किदतुः प्रत्ययो भवति । डु क्रंग करणे । क्रतुः यज्ञः ळांकू आदाने । लतुः पाशः ॥ तनेर्यतुः ॥ ७८१ ॥ ननूयी विस्तारे इत्यस्माद्यतुः प्रत्ययो भवति । तन्यतुः विस्तारः वायुः पर्वतः सूर्यच ॥ जीवेरातुः ॥ ७८२ ॥ जीव प्राणधारणे इत्यस्मादातुः प्रत्ययो भवति । जीवातुः जीवनम् औषधम् अन्नम् उदकं द्रव्यं च ॥ यमेक् ॥ ७८३ ॥ यमूं उपरमे इत्यस्मात् कित दुः प्रत्ययो भवति । यदुः क्षत्रियः ॥ शीङे धुक् ॥ ७८४ ॥ शीकू स्वप्ने इत्यस्मात् कित् धुः प्रत्ययो भवति । शीधु मद्यविशेषः ॥ धूगो धुन् च ।। ७८५ ।। धूग्श् कम्पने इत्यस्मात् धुक् प्रत्ययोऽस्य च धुन् इत्यादेशो भवति । धुन्धुः दानवः ॥ दाभाभ्यां नुः ॥ ॥ ७८६ ॥ आभ्यां नुः प्रत्ययो भवति । डु दांगृक् दाने । दानुः गन्ता यजमानः वायुः आदित्यः दक्षिणार्थं च धनम् भां दीप्तौ । भानुः सूर्यः रश्मिश्च । चित्रभानुः अग्निः । स्वर्भानुः राहुः । विश्वभानुः आदित्यः ॥ घेः शित् ॥
1
। १३९ ।
उणादयः
भक० ॥