________________
हेमप्रभात
उणादयः प्रक०
& णमं प्रहत्वे इत्यस्मादुः प्रत्ययोऽस्य च नाक इत्यादेशो भवति । नाकु: व्यळीकम् वनस्पतिः ऋषिः वल्मीकश्च ।मनिजनिभ्यां धती च ॥७२१ । आभ्यामुः प्रत्ययोऽनयोश्च यथासंख्यं धकारतकारौ भवतः । मनिंच हाने । मधु क्षौद्रम शीधु च । मधुः असुरः मासश्च चैत्रः । जनैचि प्रादुर्भावे । जतु लाक्षा ।। अजैऋज च ॥ ७२२ ॥ अर्ज अर्जने इत्यस्मादुः प्रत्ययोऽस्य च ऋजू इत्यादेशो भवति । ऋजु अकुटिलम् ॥ ७२२ ॥ कृतेस्त च ॥ ७२३ ॥ कृतैत् छेदने कृतैप वेष्टने इत्यस्माद्वा उः नत्ययो भवति अस्य च तर्क इत्यादेशः । तद्दुः चुन्दः मूत्रवेष्टनशलाका च ॥ ७२३ ॥ नेरञ्चः ॥ ७२४ ॥ निपूर्वादश्चतेरुः प्रत्ययो भवति । न्यः मृगः ऋषिश्च ॥ किमः श्रो णित् ॥ ७२५ ॥ किम्
पूर्वात शृश हिंसायामित्यस्मात् णिदुः प्रत्ययो भवति । किंशारुः शकः धान्यशिखा । उष्ट्रः हिंस्रः इषुश्च ॥ मिवहि&चरिचटिभ्यो वा ॥ ७२६ ॥ एभ्यः उ.प्रत्ययः स च णिवा भवति । डु मिण्ट प्रक्षेपणे । मायुः पित्तं मान शब्दश्च ।
गोमायुः शृगालः । मयुः किन्नरः उष्टः प्रक्षेपः आकृतं । बाहुलकादात्वाभावः । वहीं प्रापणे । बाहुः भुजः । बहु प्रभूतम् चर भक्षणे च । चारु शोभनम् । चरन्त्यस्माद्देवपितृभूतानि इत्यपादानेऽपि भीमादित्वात, चरुः देवतोद्देशेन पाक: स्थाली च । चरण भेदे । चाटु प्रियाचरणम् पटुजनः वियवादी स्फुटवादी दर्यग्रम शिष्यश्च । चटु प्रियाचरणम् ॥ ऋतशम्भ्रादिभ्यो रो लश्च ॥ ७२७ ॥ एभ्यो णिदुः प्रत्ययो रेफस्य च लकारो भवति । जगतो, न पापणे च वा । आलुः श्लेष्मा श्लेष्मातकः कन्दविशेषश्च । तालु काकुदम् । शालुः हिंस्रः कषायश्च मालुः पत्र लता यस्या मा. लुषानीति प्रसिद्धिः । भालुः इन्द्रः । आदिग्रहणादन्येऽपि ॥ कृकस्थूराद्वचः क च ॥ ७२८ ॥ आभ्यां परात वचो णिदुः प्रत्ययो भवति ककारश्चान्नादेशः । वचंक भाषणे, अंगक व्यक्तायां वाचि । कमव्यक्तं ब्रूते चक्ति वा क- कवाकुः कुक्कुटः कुकलासः खरीटश्च । एवं स्थूरवाकुः उच्चैर्ध्वनिः ॥ पृकाहृषिभूषीषिकुहिभिदिविदिमृदिव्य
555
1