________________
उणादयः
प्रक०
प्रत्ययोऽस्य च गृप इत्यादेशो भवति । गृष्टिः सकत, प्रसूता गीः॥ सोरस्ते शित् ॥ ६५० ॥ सुपूर्वात् असक भुन ईमप्रभावीत्यस्मात् शित् तिः प्रत्ययो भवति । स्वस्ति कल्याणम् । शिवाझ्भावाल्लुगभावः ॥ हमुषिकृषिरिषिविषिशो
3/शुच्यसिपूयीणप्रभृतिभ्यः कित् ॥ ६५१॥ एम्ब: किन तिः प्रत्ययो भवति । दृत् आदरे । दृतिः छागादित्वम।१३॥
। यो जलाधारः । मुषश स्तेये । मुष्टिः अङ्गुलिसंनिवेशविशेषः ॥ कृषीत् विलेखने । कृष्टिः पण्डितः। रिष् हिंसायाम् । रिष्टिः प्रहरणम् । विषलंकी व्याप्तौ । विष्टिः अवेतनकर्मकरः । शोंच तक्षणे । शितिः कृष्णः कृशश्च । शुच् शोके ।
शुक्तिः मुक्तादिः । अशौटि व्याप्ती । अष्टिः छन्दोविशेषः । पूर्यछ दुर्गन्धविशरणयोः । पूतिः दुर्गन्धः दुष्टम् तृणजा४ तिश्च । इंणक गतौ । इति हेत्वादौ । टुडुगक पोषणे च प्रपूर्वः। प्रभृतिः आदिः ॥ कुच्योनोंऽन्तश्च ।। ६५२ ।।
आभ्यां किन तिः प्रत्ययो नकारश्चान्तो भवति कुछ शन्दे । कुन्तिः राजा ।कुन्तयः जनपदः । चिंगट् चयने । चिन्तिः राजा ॥ खल्यमिरमिवहिवस्यतॆरतिः ॥ ५५३ ॥ एभ्योऽतिः प्रत्ययो भवति । खल मंचये च । खळतिः खल्वा
। अमृ गतौ । अमतिः चातकः छागः प्राकृट् मार्गः व्याधिः गतिश्च । रमिं क्रीडायाम् । रमतिः क्रीडा कामः स्वगः स्वभावश्च । वहीं प्रापणे । बहतिः गौः वायुः अमात्यः अपत्यं कुटुम्ब च । वसं निवासे । वसतिः निवासः ग्रामसंनिवेशश्च । ऋक गौ । अरतिः वायुः सरणम् असुखं क्रोधः वर्ष च ॥ हन्तेरह च ॥ ६५४ ॥ हनक हिंसागत्योरित्यस्मादतिः प्रत्ययोऽस्य च अंह इत्यादेशो भवति । अंहतिः म्याधिः पन्थाः रथश्च ॥ वृगो बत् च ।। ६५५ ॥ तृ. गट वरण इत्यस्मादतिः प्रत्ययोऽस्य च वत् इत्यादेशो भवति । व्रततिः वल्ली ।। अञ्चः क च वा ॥ ६५६॥ अ. उच गतौ चेत्यस्मादतिः प्रत्ययोऽस्य च क इत्यन्तादेशो वा भवति । अङ्कतिः वायुः अग्निः प्रजापतिश्च । अञ्चतिः | अग्निः । वातेणिवा ।। ६५७ ।। वांक गतिगन्धनयोरित्यस्मादतिः प्रत्ययः सच णित् वा भवति । वायतिः वातः ।
-
॥१६
का