________________
रणे । करणिः सादृश्यम् । तृ प्लवनतरणयोः । तरणिः संक्रमः आदित्यः यवागूः पतितगोरूपोत्थापनी च यष्टिः । बै दुःखार्थः, दुःखेन ती इर्ति वैतरणी नदी । ग्रह शू उपादाने । ग्रहणिः जठराग्निः तदाधारो व्याधिः मेहूं मृत्यु ॥ कङ्केरिच्चास्य वा ॥ ६३९ ॥ ककुछ गतावित्यस्मादणिः प्रत्ययो धातोरस्य चेकारो वा भवति । कङ्कणि: कङ्कणम् । किङ्कणिः घण्टा ॥ ककेर्जित् ॥ ६४० ॥ ककि लौल्य इत्यस्मात् णिदणिः प्रत्ययो भवति । काकणिः मानविशेषः ॥ कृषेश्च चादेः ॥ ६४१ ॥ कृषत् विलेखने इत्यस्मादणिः प्रत्यय आदेश चकारो भवति । चर्षणिः चमूः अग्निः बुद्धिः व्यवसायः वेश्या नृपश्च ॥ क्षिपेः कित् ॥ ६४२ ॥ क्षिपत् प्रेरणे इत्यस्मात् किदणिः प्रत्ययो भवति क्षिपणिः आयुधम् बडिशबन्धकः चर्मकृता पाषाणसर्जनी च ॥ आङः कृहृशुषेः सनः ||६४३ ॥ आङः परेभ्यो डु कंग करणे हंगू हरणे शुषंच शोषणे इत्येतेभ्यः सन्नन्तेभ्योऽणिः प्रत्ययो भवति । आचिकीर्षणिः व्यवसायः | आजिहीर्षणिः श्रीः । शुशुक्षणिः अग्नि वायुश्व || बारिसत्यादेरिणि ॥ ६४४ || एभ्यः किदिणिः प्रत्ययो भवति । दृट् वरणे ण्यन्तः । वारिणिः पशुः पशुवृत्तिव । स्रं गतौ । त्रिणिः अग्निः वज्रं च । आदिग्रहणादन्येऽपि ॥ अदेस्त्रीणिः || ६४५ || अर्दं भक्षणे इत्यस्मात् त्रीणिः प्रत्ययो भवति । अत्रीणिः कृमिजातिः || प्लुज्ञायजिषपिपदिवसितिसिभ्यस्तिः || ६४६ ॥ प्लोतिः चीरम् । ज्ञायते त्रैलोक्यस्य त्रातेति ज्ञातिः इक्ष्वाकुटषभः स्ववजनच । यष्टिः दण्डः लता च । पप समवाये । सप्तिः अश्वः । पत्तिः पदातिः वस्ति: मूत्राधारः चर्मपुर: स्नेहोपकरणं । तसूच् उपक्षये विपूर्वः । वितस्तिः अधहस्तः ॥ प्रथेलुक् च वा ॥ ६४७ ॥ प्रथिष् प्रख्यान इत्यस्मात् तिः प्रत्ययोऽन्तस्य च लुम्बा भवति । वृक्षं प्रति विद्योतते । प्रतिष्ठितः । पक्षे, प्रत्तिः प्रथनं भागच ॥ कोर्यषादिः ॥ ६४८ ॥ कुंकु शब्दे इत्यस्मात् यषादिस्तिः प्रत्ययो भवति । कोयष्टिः पक्षिविशेषः ॥ ग्रो गृष् च ॥ ६४९ ॥ गृत् निगरणे इत्यस्मात् तिः