________________
हेमप्रभा.
॥ १३ ॥
राभ्वौ इत्यादि केचित् । नियमसूत्रमिदं तेन स्वयम्भुवौ । दृग्भुवौ । औणादिको दृग्भूहूहूवत् । कटः । संयोगादित्युवादेशः । कंटमुवौ ॥ स्यादौ वः ॥ २ । १ । ५७ || अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ वः स्यात् । उवापवादः । वस्रुमिच्छति वसुः । वस्वौ । वस्वः । वस्वि । स्यादौ किम् । लुलुवतुः । इत्यूदन्ताः । पितृशब्दे सेर्डाः । पिता ॥ ॥ अङ च ॥ १ । ४ । ३९ ॥ घुटि ऋतः । पितरौ ॥ ऋतो हुर् ॥। १ । ४ । ३७ ॥ ङसिङसोः । पितुः । पितरि ॥ ॥ ह्रस्वस्य गुणः ॥ १ । ४ । ४१ ॥ हे पितः । कर्त्ता ॥ तृस्वसृनप्तृनष्टत्वष्टृक्षत्तृहोतृपोतृप्रशास्त्रो घुट्यार् ॥ १ । ४ । ३८ ॥ ऋतः शेषे । तृ इति तृन्तृचोर्ग्रहणम् । कर्तारौ । नप्तारौ । नेष्टारौ । त्वष्टारौ । क्षत्तारौ । होतारौ । पोतारौ । प्रशास्तारौ । अतिकर्त्तारौ । तृशब्देन नप्त्रादीनामृकारस्यारि सिद्धे पृथग्ग्रहणमर्थवग्रहणपरिभाषां गमयति । व्युत्पत्तिपक्षे नत्रादिग्रहणं नियमार्थम् । तेन पित्रादीनां न । केचित्तु प्रस्तोतृ-उन्नेतृ उद्गातृ-प्रतिहर्तृ प्रतिस्थातृ-शब्दानाकारं मन्यन्ते । ना । नरौ । नरः । नरम् । नॄन् । नुः २ । त्रोः २ ॥ नुर्वा ॥ १ । ४ । ४८ ॥ नामि | दीर्घः । नृणाम् । नृणाम् ॥ कृशस्तुनस्तृच् पुंसि ॥ १ । ४ । ९१ ॥ शेषे घुटि परे । क्रोष्टा । क्रोष्टारौ । २ । क्रोटारः । क्रोष्टारम् । प्रियक्रोष्टा । बहिरङ्गपरिभाषाया जागरूकत्वात् ऋनित्यदित इति न कच् । घुटि किम् । क्रो
। शेषे किम् । क्रोष्टो ॥ टादौ स्वरे वा ॥ १ । ४ । ९२ ।। कृशस्तुनस्तृच्पुंसि । क्रोष्ट्रा । क्रोष्टुना । आमि नित्यत्वात् पूर्व नामादेशे क्रोष्ट्नामित्येव । कृताकृतप्रसङ्गि नित्यम् । इति ऋदन्ताः । कृ तृ गृ एषां धातूनामनुकरणे प्रकृतिवदनुकरणमिति विकल्पेनातिदेशात् ऋतां क्ङितीर् इतीरादेशे पदान्ते इति दीर्घे च । की किरौ किरः । ती: तिरौ तिरः । गीः गिरौ गिरः । इत्यादि । इरभावे । कृः क्रौ क्रः । कृम् कृन्, इत्यादि । इति । ऋदन्ताः । ऋत्कार्य ऌकारेऽपि । विदा ऋफिडादित्वात् लत्वे । विदलौ । ङसिङसोर्विदुल् । इति लृदन्ताः । क्लृकारैकदेशस्याऽनुकरणे । क्लः । क्लौ । क्लः । इत्यादि । इति दन्ताः । अतिः । हे अतिहे । इत्येदन्ताः ॥ आ रायो व्यञ्जने ॥ २ । १ । ५ ॥ तदतत्सम्बन्धिनि स्यादौ ।
स्वरान्ताः
पुल्लिङ्गाः
॥ १३ ॥