________________
..
अब सातत्यगमने, अंज क्षेपणे च पादाभ्यामवत्यजति वा पदातिः पदाजिः । पद: पादस्याज्याति गोपहते ' इति पदभावः । उभावपि पत्तित्राचिनौ । आतिः पक्षी । सुपूर्वात् स्वातिः वायव्यनक्षत्रम् | आजिः संग्रामः स्पर्धाऽवधिव ॥ नहें॑ च ॥ ६२१ ॥ नहींच बन्धने इत्यस्माण्णिदिः प्रत्ययो भकारश्रान्तादेशो भवति । नाभिः अन्त्य कुलकर चक्रमध्यं शरीरावयवश्च ॥ अशो रश्चादिः || ६२२ ॥ अशौटि व्याप्तावित्यस्माण्णिदिः प्रत्ययो रेफश्च धातोरादि र्भवति । राशिः समूहः नक्षत्रपादनवकरूपश्च मेषादिः ॥ कायः किरिच्च वा ॥ ६२३ ॥ के शब्दे इत्यस्मात्किः प्रत्यय इकारान्तादेशो वा भवति । किकिः पक्षी विद्वांश्च । काकिः स्वरदोषः ॥ वर्द्धरकिः ॥ ६२४ ॥ वर्धण - दनपूरणयोरित्यस्मादकिः प्रत्ययो भवति । वर्धकिः तक्षा | सनेडेखिः ॥ ६२५ || पंणूयी दाने इत्यस्मात् डिदखिः प्रत्ययो भवति । सखा मित्रम् ।। सखायौ । शखायः || कोर्डिखिः ॥ ६२६ ।। कुंकु शब्दे इत्यस्मात् डिदिखि: प्रत्ययो भवति । किखिः लोमसिका ॥ सृश्विकण्यणिदध्यविभ्य ईचिः ॥ ६२७ | एभ्य ईचिः प्रत्ययो भवति । मृत प्राणत्यागे । मरीचिः मुनिः मयूखश्च । टूबो श्वि गतिवृद्धयोः । श्वयीचिः चन्द्रः श्वयथुम । कण अण शब्दे । कचिः प्राणी लता चक्षुः शकटं शङ्खथ । अणीचिः वेणुः शाकटिकश्च । दधि धारणे । दधीचिः राजर्षिः । अवरक्षणादौ । अवीचिः नरकविशेषः || वेगो डित् ॥ ६२८ ॥ वेंगू तन्तुसन्ताने इत्यस्मात् डिदीचिः प्रत्ययो भवति । वीचिः ऊर्मिः ॥ वर्णित् ।। ६२९ ।। वण शब्दे इत्यस्मात् णिदीचिः प्रत्ययो भवति । वाणीचिः छाया व्याधिश्व कृपिशकिभ्यामटिः ॥ ६३० ।। आभ्यामटिः प्रत्ययो भवति । कृपौ सामर्थ्ये । कर्पटिः निस्वः । शक्लंट शक्तौ । शकटिः शकटः ॥ [श्रेदिः ॥ ६३१ ॥ श्रग् सेवायामित्यस्मात् दिः प्रत्ययो भवति । श्रेदिः गणितव्यवहारः ॥ चमेरुच्यातः ॥ ६३२ ।। चमू अदने इत्यस्मात् द्विः प्रत्ययोऽस्योकारश्च । चुण्ढिः क्षुद्रवापी | मुषेरुण चान्तः ॥ ६३३ ॥