________________
वाद्यविशेषः । मट सादे सौत्रः । मटहः ह्रस्वः । लट बाल्ये ।लटति विलसति लटहः विलासवान् । ललिणू ईप्सायाम् |लकहः लीलावान् । पक गतौ । पलहः आवापः । कलि शब्दसंख्यानयोः । कलहः युद्धम् । अनक् प्राणने। अनहः नीरोगः । रगे शङ्कायाम् । रगहः नटः । लगे सगे । लगहः मन्दः पुले: कि । ५९० ॥ पुल महत्व इत्यस्मात् किदहः प्रत्ययो भवति । पुलहः प्रजापतिः । वृकटिशमिभ्य आहः ।। ५९१ ॥ एभ्य आहः प्रत्ययो भवति । दृग्ट् वरणे । वराहः सुकरः । कटे वर्षावरणयोः । कटाहः कर्णवत् कालायसभाजनम् । शम्रचु उपशमे । शमाहः आश्रमः || बिलेः कित् ॥५९२ || बिल वरणे इत्यस्मात् किदाहः प्रत्ययो भवति । विलाहः रहः ॥ निर इण ऊहश् ।। ५९३ ॥ निःपूर्वात् इंणूक गतावित्यस्माच्छिदूहः प्रत्ययो भवति । निर्यूहः सौधादिकाष्ठनिर्गमः ॥ दस्त्यूहः ॥ ॥ ५९४ ॥ ददात्यूहः प्रत्ययो भवति । दात्यूहः पक्षिविशेषः । अनेरोकहः || ५९५ || अनक प्राणने इत्यस्मादोहः प्रत्ययो भवति । अनोकहः वृक्षः ॥ वलेरक्षः || ५९६ ॥ वलि संवरणे इत्यस्मादक्षः प्रत्ययो भवति । वलक्षः शुक्लः ॥ लाक्षाद्राक्षामिक्षादयः ॥ ५९७ ॥ लाक्षादयः शब्दा अक्षप्रत्ययान्ता निपात्यन्ते । लसेरा च । लाक्षा जतु । रसेद्र च । द्राक्षा मृदीका । आङ्पूर्वान्मृदेरन्त्यस्वरादेर्लुक् प्रत्ययादेरित्वं च । आमिक्षा हविर्विशेषः ।। आदिग्रहणात् चुप मन्दायां गतावित्यस्य चोक्षः ग्रामरागः शुद्धं च । एवं पीयूक्षादयोऽपि ॥ समिणुनिकषिभ्यामाः ॥ ५९८ ॥
पूर्वादिण्क् गतावित्यस्मात् निपूर्वात् कप हिंसायामित्यस्माच आः प्रत्ययो भवति । समया पर्वतम् । निकषा पर्वतम् । समीपासूयावाचिनावेतो ॥ दिविपुरिवृषिमृषिभ्यः कित् ॥ ५९९ || एभ्यः किदाः प्रत्ययो भवति । दिवूच क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु । दिवा अहः । पुरत् अग्रगमने । पुरा भूतकालवाची । दृषू सेचने । तृषा प्रचलमित्यर्थः । मृषींच् तितिक्षायाम् मृषा अभूतमित्यर्थः ॥ वे साहाभ्याम् ॥ ६०० ॥ विपू