________________
हेमप्रभा
११२५।
स्वादिभ्योऽर्कपूर्वाच्च लुनातेः कित् षः प्रत्ययो भवति । स्नुक् प्रस्रवणे । स्नुषा पुत्रवधूः । पूग्शू पवने । पूषः पत्रनभाण्डम् शुर्पादि । त् प्रेरणे । सुषः बलम । मूङ् बन्धने । मृषा लोहक्षरणभाजनम् । लुगश छेदने अर्कपूर्वः । अर्क - लूषः ऋषिः ॥ श्लिषेः शे च ॥ ५४३ ॥ श्लिषंच् आलिङ्गने इत्यस्मात् षः प्रत्ययोऽस्य च इत्यादेशो भवति । । शेषः नागराजः ॥ कोरषः ॥ ५४४ ॥ कुंङ् शब्दे इत्यस्मादपः प्रत्ययो भवति । कवषः क्रोधी शब्दकारथ ॥ युजले राषः || ५४५ || आभ्यामाषः प्रत्ययो भवति । युक् मिश्रणे । यवाषः दुरालभा । जल घात्ये । जलाषं जलम् । अरिषः || ५४६ ॥ ऋक् गतावित्यस्माण्ण्यन्तादिषः प्रत्ययो भवति । अर्पिषम आर्द्रमांसम् ॥ मह्यविभ्यां टित् ॥ ५४७ || आभ्यां टिदिषः प्रत्ययो भवति । मह पूजायाम् । महिषः सैरिभः राजा च । महिषी राजपत्नी सैरिभी च । | अव रक्षणादौ । अविषः समुद्रः राजा पर्वतश्च । अविषी द्यौः भूमिः गङ्गा च ॥ रुहेर्वृद्धिश्च ॥ ५४८ ॥ रुहं जन्मनीत्यस्मात् विदिषः प्रत्ययो वृद्धिश्चास्य भवति । रौहिषं तृणविशेषः अन्तरिक्षं च । रौहिषः मृगः । रौहिषी वात्या मृगी दूर्वा च ॥ अमिमृभ्यां णित् ॥ ५४९ || आभ्यामिषः प्रत्ययो भवति स च णित् । अम गतौ । आमिषं भक्ष्यम् । शहिंसायाम् । मारिषः हिंस्रः ॥ तवे ॥ ५५० ॥ तव गतावित्यस्मात्सौत्रात् विदिषः प्रत्ययो भवति स च - द्वा भवति । ताविषः ताविषश्च स्वर्गः । ताविषं तविषं च बलं तेजश्च । ताविषी तविषी च वात्या देवकन्या च ॥ कलेः किल्ब च ॥ ५५१ || कलि शब्दसंख्यानयोरित्यस्मात् टिदिषः प्रत्ययोऽस्य च किल्व इत्यादेशो भवति । किबिषं पापम् । किल्बिषी वेश्या रात्रिः पिशाची च ।। नञो व्ययेः ॥ ५५२ ॥ नञपूर्वात् व्यथिष् भयचलनयोरित्यस्मात् टिदिषः प्रत्ययो भवति । अव्यथिषः क्षेत्रज्ञः सूर्यः अग्निश्र । अव्यथिषी पृथिवी || कृतृभ्यामीषः ॥ ५६३ ॥ आभ्यामीषः प्रत्ययो भवति । कृत् विक्षेपे । करीषः शुष्कगोमयरजः । वृ प्लवनतरणयोः । तरीषः समर्थः स्वभः
उणादयः प्रक०
| । १२५ ।