________________
नयोरित्यस्मात् टिदशक् प्रत्ययो भवति । कलश: कुम्भः । कलशी दधिमन्थनभाजनम् ॥ पलेराशः ॥ ५३३ ॥ पल
गतावित्यस्मादाशः प्रत्ययो भवति । पलाशः ब्रह्मवृक्षः॥ कनेरीश्चातः ॥ ५३४ ॥ कनै दीप्त्यादावित्यस्मादाशः ६ प्रत्यय ईकारश्वाकारस्य भवति । कीनाशः कर्षकः वर्णशंकरः कदयंश्च ॥ तथा-लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च । योऽश्नाति वाऽममांसं स च कीनाशो यमश्चैव ॥ कुलिकनिकणिपलिवडिभ्यः किशः ॥५३॥ ए. भ्यः किन इशः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः । कुलिशं वज्रम् । कनै दीप्त्यादौ, कण शब्दे । कनिशं कणिशं च सस्यमअरी । पल गतौ । पलिशं यत्र स्थित्वा मृगा व्यापाद्यन्ते । वड आग्रहणे सौत्रः । बडिशं मत्स्यग्रहणम् ॥ बलेणिवा ॥ ५३६ ॥ बल प्राणनधान्यावरोधयोरित्यस्मात् किशः प्रत्ययः स च णिद्धा भवति । बालिशः मूर्खः । बलिशः मूखः । बलिशं बडिशम् ॥ तिनिशेतिशादयः ॥ ५३७॥ तिनिशादयः शब्दाः किशप्रत्ययान्ता निपात्यन्ते । तनेरिश्चातः । तिनिशः वृक्षः । इणस्तोऽन्तश्च । इतिशः गोत्रदृषिः । आदिग्रहणादन्येऽपि ॥ मस्ज्यङ्किभ्यामुशः ॥५३८ ॥ आभ्यामुशः प्रत्ययो भवति । टु मस्जोंत् शुद्धौ । 'न्यकूद्गमेघादयः' इति गः । मद्गुशः नकुलः । अकुछ लक्षणे । अङ्कशः सृणिः । अर्तीणभ्या पिशतशो ।। ५३९ ॥ आभ्यां यथासंख्य पिश तश इत्येतौ प्रत्ययौ भवतः । ऋक् गतौ । अर्पिशम आर्द्रमांसम् चालवत्साया दुग्धं च । इणक गतौ । एतशः अश्वः ऋषिः वायुः अग्निः अर्थश्च ॥ वृकृतृमीमाभ्यः षः॥ ५४० ॥ एभ्यः षः प्रत्ययो भवति । वृगट वरणे । वर्षः भर्ता । वर्ष संवत्सरः । वर्षाः ऋतुः । कुत विक्षेपे । कर्षः उन्मानविशेषः । तृ प्लवनतरणयोः। तर्षः प्लवः हर्षश्च । मीच हिंसायाम् । मेषः उरभ्रः। मांक माने । माषः धान्यविशेषः हेमपरिमाणं च ॥ योरूच्च वा ॥ ५४१ ॥ युक् मिश्रण इत्यस्मात् षः प्रत्यय ऊकारश्चान्तादेशो वा भवति । यूषः पेयविशेषः । यूषा छाया । योषा स्त्री ॥ स्नुएमूम्बर्कलूभ्यः कित् ॥५४२