________________
लव ।। ऋजिपृभ्यः कित् ।। ५५४ || एभ्यः किदोषः प्रत्ययो भवति । ऋजि गत्यादौ । ऋजीषः अवस्करः । ऋजीषं धनम (उपहतम् ) शृश् हिंसायाम् । शिरीषः वृक्षः । पृश् पालनपूरणयोः । पुरीषं शकृत् || अमेर्वरादिः ॥ ।। ५५५ ।। अम गतावित्यस्मात् वरादिरीषः प्रत्ययो भवति । अम्बरीषं भ्राष्ट्रं व्योम च । अम्बरीषः आदिनृपः ॥ उर्णोऽन्तश्च ॥ ५५६ ॥ उषू दाहे इत्यस्मादीपः प्रत्ययो णकारश्चान्तो भवति । उष्णीषः मुकुटं - शिरोवेष्टनं च ॥ ऋनहिनिक चिलिच पिव पिकृपिहयिभ्य उषः ॥ ५५७ ॥ एभ्यः उपः प्रत्ययो भवति। ऋशू गतौ । अरुषः व्रणः हयः आदित्यः वर्णः रौषश्च । पृश् पालनपूरणयोः । परुषः कर्कशः । नहींच् बन्धने । नहुषः पूर्वी राजा । हन हिंसागत्योः । हनुषः क्रोधः राक्षसश्च । कलि शब्दसंख्यानयोः । कलुषम् अप्रसन्नं पापं च । चल कम्पने । चलुषः वायुः । चप सान्त्वने । चपुषः शकुनिः । डु वर्षी बीजमंताने । वपुषः वर्णः । कृपौ सामर्थ्यं । कल्पुषः क्रियानुगुणः । हय क्लान्तौ च । हयुषा ओषधिः ॥ विदिपृभ्यां कितु ॥ ५५८ ॥ आभ्यां किदुषः प्रत्ययो भवति । विदक् ज्ञाने । विदुषः विद्वान् । पृशु पालनपूरणयोः । पुरुषः पुमान् आत्मा च ॥ अपुषधनुषादयः ॥ ५५९ ॥ अपुषादयः शब्दा उपप्रत्ययान्ता निपात्यन्ते । आप्नोतेईस्वश्च । अनुषः अग्निः सरोगश्च । दधातेर्धन् च । धनुषः शैलः । आदिग्रहणालसुषादयो भवन्ति खलिफलिबृटकनृलम्बिमभिपीविहन्यङ्गिमङ्गिगण्ड्यर्तिभ्य ऊषः ॥ ५६० ॥ खलूषः म्लेच्छजातिः । फलूषः वीरुत् । वरूषः भाजनम् । परूपः वृक्षविशेषः । करूषाः जनपदः । जरूषः आदित्यः । लम्बुषः नीरकदम्बः निचुलश्च । मञ्जि: पीयिश्च सौत्रौ । मब्जूषा काष्ठकोष्ठः । पीयूषं प्रत्यग्रप्रसवक्षीरविकारः अमृतं घृतं च । हनूपः राक्षसः । अषः शकुनिजातिः हस्ती बाणः वेगश्च । मङगूषः जलचरशकुनिः । गण्डूषः द्रवकवल: अरूप: रविः || कोरदूषाटरूषकारूष शैलूष पिञ्जूषादयः || ५६१ ।। एते ऊपप्रत्ययान्ता निपात्यन्ते । कुरेरदोऽन्तश्च