SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ हेमप्रभा | १२० | निपात्यन्ते । भिदेर्लश्च । भिल्लः अन्त्यजातिः । अच्छपूर्वात् भलेः । अच्छभल्छः ऋक्षः । सुपूर्वाद्विदेरलोऽन्तः सोच वृद्धिः । सौदिल्लः कचुकी । आदिग्रहणादल्लपल्ली रल्लादयोऽपि भवन्ति ॥ मृदिकन्दिकुण्डिमण्डिमङ्गिपटि पाटिश किकेट देट कमियमिशलिकलिपलिगुध्व श्चिचश्चिच पिवहिदिहिकु हितसृपिशितुसिकस्यनिद्रमेरलः ॥ ॥ ४६५ ॥ मर्दलः सुरजः । कन्दलः प्ररोहः कुण्डलं कर्णाभरणम् । मण्डलं देशः परिवारश्च । मङ्गलं शुभम पटलं छदिः समूहः आवपनं नेत्ररोगश्च । ण्यन्तात्, पाटलः वर्णः । शकलं भित्तमसारं च । केवलं परिपूर्ण ज्ञानम् असहायं च । देवलः ऋषिः देवत्रातः क्रीडनच । कमलं पद्मम् । णिङि कामको नेत्ररोगः यमलं युग्मम् । शललं शेधाङ्गशकुः । कललं गर्भप्रथमावस्था पललम् भृष्टतिळातसीचूर्णम् । गवल: महिषः धवलः श्वेतः । अञ्चलः वस्त्रान्तः । चञ्चलः अस्थिरः चपलः स एव वहलं सान्द्रम् । देहली द्वाराधः पट्टः । कोहलः भरतपुत्रः । बाहुलकाद्गुणः । तरलः अधीरः हारमध्यमणिश्च, सरलः अकुटिलः वृक्षविशेषथ । पेशल: मनोह्नः तोसलाः जनपदः । कोसलाः जनपदः । अनलः अग्निः । द्रमलं जलम् ॥ नहिलङ्गेर्दीर्घश्व ॥ ४६६ || आभ्यामळः प्रत्ययोऽनयोश्च दीर्घौ भवति । नाहलः म्लेच्छः । लाङ्गलं हलम् ॥ ऋजनेर्गोऽन्तश्च ॥ ४६७ ॥ आभ्यामलः प्रत्ययो गकारश्रान्तो भवति । ऋक् गतौ । अर्गला परिघः । जनैचि प्रादुर्भावे । जङ्गलं निर्जलो देश: ॥ तृपिवपिपिकुशिकुटिवृषिमुसिभ्यःकि ॥ ४६८ || एभ्यः किदल: प्रत्ययो भवति । तृपला लता । तृपलं शुष्कपर्णम् शुष्कतृणं च । उपलः पाषाणः । कुपळः प्रबालः । कुशळ: मेधावी । कुशलम् आरोग्यम् । कुटलः ऋषिः । वृषलः दासजाति: । मुसलम् अवहननम् ॥ कोव ॥ ४६९ ।। कुंछ शब्द इत्यस्मादलः प्रत्ययः स च किद्वा भवति । कुवलं बदरम् । कुवली क्षुद्रबदरी । कवलः ग्रासः ॥ शमेर्थ च वा ॥ ४७० शमूचु उपशम इत्यस्मात् अकः प्रत्ययो मकारस्य च बकारो वा भवति । शबलः उणादयः प्रक० । १२० ।
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy