________________
9QG630IASCORX+SG936
कल्माषः । शमलं पुरीषम् दुरितं च ॥ छो डग्गादिर्वा ॥४७१॥ छोंच छेदने इत्यस्मात्किदल प्रत्ययः स च ढगाहै दिर्गादिश्च वा भवति । छगल छागः । छागळ: ऋषिः । छल वचनविघातोऽर्थविकल्पोपपत्या ॥ 'मृजिखन्याहनि
भ्यो डित् ॥ ४७२ ॥ एभ्यो डिदलः प्रत्ययो भवति । मलं बाा रजः अन्तर्दोषश्च । खलः दुर्जनः निष्पीडितरसं पिण्याकादि । खलं सस्यग्रहणभूमिः । आइल: विषाणं नखरश्च ॥ स्थो वा ॥ ४७३ ॥ तिष्ठतेरलः प्रत्ययः स च डिद्वा भवति । स्थलं प्रदेशविशेषः । स्थालं भाजनम् ॥ मुरलोरलविरलकेरलकपिञ्जलकज्जलेजलकोमलभृ. मलसिंहलकाहलशुकलपाकलयुगलभगलविदलकुन्तलोत्पलादयः॥ ४७४ ॥ एतेऽलपत्ययान्ता निपात्यन्ते । मुयुयोवलोपः किच्च । मुरलाः जनपदः । उरल: उत्कटः । विपूर्वाद्रमेडिच्च । विरल: असंहतः । किरः केर् च । केरला: जनपदः । कम्पेरिओऽन्तो नलोपश्च । कपिजला गौरतित्तिरिः। कषीषो|ऽन्तो जश्च । कज्जलं मषी। इज्जलः वृक्षविशेषः। कमेरत ओच्च । कोमलं मृदु । भ्रमे म च । मृमळः वायुः कृमिजातिश्च । भृमलं चक्रम् । हिंसेरायन्तविपर्ययश्च । सिंहलाः जनपदः । कहाँ दीर्घश्च । काहल: अव्यक्तवाक् । काहला वाद्यविशेषः । शकेरूच्चास्य । शू. कलः अश्वाधमः । पचेः पाक् च । पाकलः इस्तिज्वरः । युजेः किन ग च । युगलं युग्मम् । मातेर्गोऽन्तो इस्वश्च । भ. गल: मुनिः । विन्देनेलोपश्च । विदलं वेणुदलम् । कनेरत उत तोऽन्तश्च । कुन्तलाः जनपद: केशाचा उत्पूर्वात पिवते ईस्वश्च उत्पलं पद्मम् । आदिग्रहणात सुवर्चलामुद्गलपुद्गलादयो भवन्ति॥ऋकृमृवृतनितमिचषिचपिकपिकीलिपलि वलिपश्चिमगिगण्डिमण्डिचण्डितण्डिपिण्डिनन्दिनदिशकिभ्य आलः ॥४७५॥ अराल वकम् । करालम् उच्चम् । मराला हंसः महांश्च । वरालः वदान्यः तनालं जलाशयः। तमाल: वृक्षः व्यालश्च । चषाल यूपशिरसि द्रव्यम् । चपालं यज्ञद्रव्यम् । कपिः सौत्रः । कपालं घटाद्यवयवः शिरोऽस्थि च । कीलालं मधु जलममृक् च । पलालम् अकणो घीया.
BEA5-5545%A
ष्क