________________
उणादय: प्रक०
११९॥
व डिच्च । स्त्री योषित् ॥ हुयामाश्रुवसिभसिगुवीपचिवचिधृयम्यमिमनितनिसदिछादिक्षिक्षदिलुपिपहेमप्रभा | तिधूभ्यस्त्रः॥ ४५१॥ होत्रं हवनं, होत्रा ऋचः। यात्रा प्रस्थानं यापनम् उत्सवश्च ।मात्रा प्रमाणं कालविशेषः स्तोक:
६ गणना च । श्रोत्रं कर्णः । वस्त्रं वासः । भसि जुहोत्यादौ स्मरन्ति । भस्त्रा चर्ममयमावपनम् उदरं च । गोत्रः पर्वतः। ॐ गोत्रा पृथ्वी । गोत्रम् अन्ववायः वेत्रं वीरुद्विशेषः । पक्वं पिठरं गार्हपत्यं च वक्त्रम् आस्यम् छन्दोजातिश्च । धत्रः धर्मः P वृक्षः रविश्च । धर्त्रे नमः गृहसूत्रम् च । धर्ना द्यौः। यन्त्रं शरीरसंधानम् अरघट्टादि च । अन्नं पुरीतत् । मनः छन्दः Bा तन्त्रं प्रसारितास्तन्तवः शास्त्र समूहः कुटुम्बं च। सत्रं यज्ञः सदा दानं छद्म यागविशेषश्च । छादयतीति छात्र: शिक्षका त क्षेत्रं कर्षणभूमिः भार्या शरीरमाकाशं च । क्षद संवरणे सौत्रः । क्षत्रं राजबीजम् | लोत्रम् अपहृतं द्रव्यम् । पत्रं पण * यानं च । धोत्रं रज्जुः ॥ श्वितेर्वश्च मो वा ॥ ४५२ ।। श्विताङ्वर्ण इत्यस्मात्रः प्रत्ययो वकारस्य च मकारो वा 2 भवति श्मेत्रं श्वेत्रं च रोगौ । गमेरा च ॥ ४५३ ॥ गम्लं गतावित्यस्मात्र: प्रत्यय आकारश्चान्तादेशो भवति । गात्रं |
शरीरम् । गात्रा खट्वावयवः ।। चिमिदिशंसिभ्यः कित ॥ ४५४ ॥ एभ्यः कित्रः प्रत्ययो भवति । चिंगट् चयने । चित्रम् आश्चर्यम् आलेख्यं वर्णश्च ॥ वि मिदांच स्नेहने । मित्रं सुहृत् । अमित्रः शत्रुः । मित्रः सूर्यः । शंम् स्तुती
च । शस्त्रं स्तोत्रमायुधं च ॥ पुत्रादयः ॥ ४५५ ॥ पुत्र इत्यादयः शब्दास्त्रप्रत्ययान्ता निपात्यन्ते । पुनाति पचते ६ व पितृपूतिमिति पुत्रः सुतः । यदाहुः 'पूतीति नरकस्याख्या दुःखं च नरकं विदुः' । पुन्नाम्नो नरकात जायत इति है व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा व्याख्यानं लक्षयति । आदिग्रहणादन्येऽपि ।। धृग्नक्षिपचिवच्यमिनमिवमिवपि-8
बधियजिपतिकडिभ्योऽत्रः ॥ ४५६ ॥ एभ्योऽत्रः प्रत्ययो भवति । वृगट् वरणे । वरत्रा चर्मरज्जुः। णक्ष गतौ । नक्षत्रम् अश्विन्यादि । डु पचींपू पाके । पचत्रं रन्धनस्थाली । वचं भाषणे । वचत्रं वचनम् । अम गतौ अमत्र भाज