________________
हेमप्रभा
| ११८।
|
I
भिधाने, परिवत्सरादीन्यपि वर्षविशेषाभिधानानीत्येके । कि इत्यदादौ स्मरन्ति । केसरः सिंहसटः पुष्पावयवः बकुलश्च । बाहुलकान्न षत्वम् ॥ कृधूतन्यृषिभ्यः कित् ॥ ४४० || एभ्यः कित् सरः प्रत्ययो भवति । डु कुंग करणे कसरः कसरा वा विलेपिकाविशेषः वर्णविशेषश्च । धूत् विधूनने । धूसरः भिन्नवर्णः वायुः धान्यविशेषश्च । तनूयी विस्वारे । तसरः कौशेयसूत्रम् । ऋपैत् गयौ । ऋक्षरः कण्टकः ऋत्विक् च । ऋक्षरा तोयधारा ॥ कृगृशृट्टटग्वतिखवर || ४४१ ॥ कृत विक्षेपे । कर्बरः व्याघ्रः विष्किरः अञ्जलिश्च । कर्बरी भूमिः शिवा च । मृत् निगरणे । गर्वरः अहंकारः महिषश्च । गवरी महिषी संध्या च । शुशु हिंसायाम् । शर्वरः सायाह्नः रुद्रः हिंस्रव । शर्वरं तमः अन्नं च । शर्वरी रात्रिः । दृश् विदारणे । दर्वरं वज्रम् । दवैरी सेवा । गट् वरटे । वरः कामः चन्दनं केशविशेषः लुब्धक | वर्वरी नदी भार्यां च । चतेग् याचने । चत्वरं चतुष्पथमरण्यं च । चत्वरी रथ्या देवता वेदिय । खट काक्षे । खट्बरं रससंकीर्णशाकपाकः । कटे वर्षावरणयोः । कट्वरः व्यालाश्वः । कट्वरी दधिविकारः । पदंल विशरणादौ निपूर्वः । निषदरः कर्दमः वह्निः कर्मकरः कन्दर्पः इन्द्रश्व । निषद्वरमासनम् । निषहरी प्रपा रात्रिः प्रमदा इन्द्राणी च॥अश्नोतेरीच्चादेः॥ ४४२ ॥ अशौटि व्याप्तावित्यस्माद्वरट् प्रत्यय ईकारश्चादेर्भवति । ईश्वरः विभुः। ईश्वरी स्त्री नीमी कुतुवेर्दीर्घश्च ॥ ४४३ || एभ्यो वर प्रत्ययो दीर्घश्चैषां भवति । णीं प्रापणे । नीवरः पुरुषकारः । मींग्श हिंसायाम् | मीवरः हिंस्रः समुद्रश्व । कुंछ शब्दे । कूबरः स्थावयवः । तुंक् दृत्यादिषु । तूवरः मन्दश्मश्रुः अजननीकश्च । चिगृह चयने । चीवरं मुनिजनवासः निःसारं कन्या च ॥ तीवरधीवरपीवरछित्वरछत्वर गहरोपहर संयद्वरोदुम्बरादयः || ४४४ ॥ एते वर प्रत्ययान्ता निपात्यन्ते । तिम्यतेस्ती च, तीवतेर्वाऽरे तीवरं जलं व्यञ्जनं च । ध्यायतेर्षी च । धीवरः कैवर्तः । ध्यायः प्यैङने वा पी च पीवतेर्वाऽरः । पीवरः मांसलः । छिनत्तेस्तः किख । छिरः
उणादयः
मक०