________________
AASABASE
| कुटेरः शठः । गडेरः मेघः । प्रस्रवणशीलश्च । गुडेरः राजा पण्यं च । बालभक्ष्यम् । मुदेरः मूर्खः । मूलेरः वनस्पतिः। PI मूलेरं पण्यम् दशेरः सर्पः सारमेयः जनपदश्चाशतेरादयः॥४३॥शतेर इत्यादयः शब्दाः केरप्रत्ययान्ता निपात्यन्ते ।
शल शातने तश्च ।शतेरः वायुः तुषारश्च ।आदिग्रहणात् गृधेरशृङ्गवेरनालिकेरादयो भवन्ति।कठिचकिसहिभ्यः ओरः ॥४३॥कठोरः अमृदुः चिरंतनश्च । चकोरः पक्षिविशेषः पर्वतविशेषश्च सहोरः विष्णुः पर्वतश्च।।कोरचोरमोरकिशोरघोरहोरादोरादयः।।४३४॥ कोर इत्यादयः शब्दा ओरपत्ययान्ता निपात्यन्ते ।कायतेश्वरतेम्रियतेश्च डि । कोरः पाळपुष्पम् । चोरः तस्करः । मोरः मयरः । कोरिच्चोपान्त्यस्य । किशोरः तरुणः बालाश्वश्च । हन्तेर्डित् घश्च । घोरं कष्टम् हुंग हरणे । होरा निमित्तवादिना चक्ररेखा। ड दांगक दाने, दोंच छेदने वा दोरः कटिसूत्रं तन्तुगुणश्च । आदिग्रहणादन्येऽपि ॥ किवृभ्यः करः॥ ४३५ ॥ किः सौत्रः । केकरः वक्रदृष्टिः । शर्करा मत्स्यण्डिकादिः कर्कशः क्षुद्रपाषाणावयवश्व वर्करः छागशिशुः ॥ सूपुषिभ्यां कित ।। ४३६ ॥ आभ्यां कित् करः प्रत्ययो भवति । पूर्व प्रेरणे ।
मूकरः वराहः । पुष पुष्टौ । पुष्करं परतूर्यमुख हस्तिहस्तायम आकाशं मुरजः तीर्थनाम च ॥ अनिकाभ्यां तरः॥ ल॥४३७ ॥ अनक प्राणने । अन्तरं बहिर्योगोपसंव्यानयोः छिद्रमध्यविरहविशेषेषु च । के शब्दे । कातरः भीरुः ॥
इणपूभ्यां कित् ॥ ४३८ ॥ आभ्यां किन तर प्रत्ययो भवति । इण्क् गतौ । इतरः निर्दिष्टप्रतियोगी । पूरा पवने पूतरः जलजन्तुः॥ मीज्यजिमामद्यशोवसिकिभ्यः सरः ॥ ४३९ ॥ मेसरः वर्णविशेषः । जेसरः शूरः। सरः अश्वतरः। मृग गतावित्यस्य वा जठरेत्यादिनिपातनादरे रूपम् । मासरः आयामः।मत्सरः क्रोधविशेषः । अक्षरं वर्णः मोक्षपदम् आकाशं च अक्षेर्वा अरे रूपम् ।वत्सरः संवत्सरः परिवत्सरः अनुसंवत्सरः अनुवत्सरः विवत्सरः उद्वत्सरः वर्षाभिधानाचि । इडा मानेन वसन्त्यत्र कालावयवा इति इड्संवत्सरः,इडया मानेन वसन्त्यत्रेति इडावत्सरः वर्षविशेषा
ASHOC5POLX