________________
AB
हेमप्रभा
।११७
मत्स्यविशेषः । वागुरा मृगानायः । आदिग्रहणान्मन्यतेर्धश्च । मधुर रसविशेष इत्यादि ॥मीमसिपशिखटिखडिख| जिंकजिसर्जिकृपिवल्लिमण्डिभ्य ऊरः॥ ४२७ ॥ मीइन् हिंसायाम् । मयूरः शिखी । मह्यां रौति मयूर इति पृ
उणादयः ६ षोदरादिषु संज्ञाशब्दानामनेकधा व्युत्पत्ति लक्षयति । मसैच् परिमाणे । ममूरः अवरधान्यजातिः चर्मासनं च । पशिः
सौत्रः । पश्यते गम्यते इति पशूरः ग्रामः। खट काझे । खटूरः मणिविशेषः । खडण भेदे । खडूरः खुरलीस्थानम् । खर्ज मार्जने च । खजूरः वृक्षविशेषः । कर्ज व्यथने । कर्जूरः स एव मलिनश्च । सर्ज अर्जने । सर्जूर अहः। कुपोङ् सामर्थ्ये । कर्पूर गन्धद्रव्यम् । वल्लि संवरणे । वल्लूरः शुष्कं मांसम् । मडु भूषायाम् । मण्डूरः धातुविशेषः ॥ म-10 हिकणिचण्यणिपल्यलितलिमलिशलिभ्यो णित् ॥ ४२८ ॥ एभ्यो णिदूरः प्रत्ययो भवति । मह पूजायाम् । माहरः शैलः । कण गतौ । काणूरः नागः । चण हिंसादानयोश्च । चाणूरः मल्लो विष्णुहतः । अण शब्दे । आणूरः ग्रामः । पळ गती । पालूरं नाम नगरमान्ध्रराज्ये । अली भूषणादौ । आलूरः विटा तलण् प्रतिष्ठायाम् । तालूरः। जलावर्तः । मलि धारणे । मालूरः दानवः बिल्वश्च । शल गतो । शालूरः दुर्दरः ॥ स्थाविडेः कित ।। ४२९ ॥ आ| भ्यां किदुरः प्रत्ययो भवति । ष्ठां गतिनिवृत्तौ । स्थूरः बठरः उच्चश्च । स्थरा जडाप्रदेशः। विड आकोशे। विदूरः बालवाये ग्रामः ॥ सिन्दूरकच्चूंरपत्तूरधुत्तूरादयः ।। ४३० ॥ एते ऊरमत्ययान्ता निपात्यन्तै । स्यन्देः सिन्दु च । सिन्दूरं चीनपिष्टम् । करोतेश्चोऽन्तश्च । कर्चुग औषधविशेषः पतेस्तोऽन्तश्च । पत्तूरं गन्धद्रव्यम् । धुवो द्विरुक्तस्तोऽन्तो इस्वश्च । धुत्तूर उन्मत्तकः । दधातेधत्तूर इत्यन्ये । आदिग्रहणात् कस्तूरहारहूरादयो भवन्ति ॥कुगुपतिकथिकुथिकठि- ४ कठिकुटिगडिगुडिमुदिमूलिदंशिभ्यः केरः॥ ४३१ ॥ कुबेरः धनदः । गुवेरं युदम् । पतेरः पक्षी पवनश्च ।कथेरः कयकः कुहकः शकुन्तश्च । कुथरः शिडाकीसंभारः । कठेरः दरिद्रः । कुठिः सौत्रः । कुठेरः निःसृतसारः अर्जकश्च
E
११७॥
A5%