________________
I
| सौत्रस्यात एच्च | केदारः वप्रः । खनेर्द्विच्च । खारी चतुद्रणम् । खारडिति टकारो ङयर्थः । आदिग्रहणात् शिशुमारादयो भवन्ति ॥ मदिमन्दिचन्दिप दिखदि सहिवहिकृमृभ्य इरः ॥ ४१२ ॥ मदैच् हर्षे । मदिरा सुरा । मदुछ स्तुत्यादौ । मन्दिरं वेइम नगरं च । चदु दीप्त्याहादनयोः। चन्दिरः चन्द्रमाः हस्ती च । चन्दिरं चन्द्रिकावत् जलं च । पर्दिच गतौ । पदिरः मार्गः । खद हिंसायाम् । स्वदिर: वृक्षविशेषः । पहि मर्षणे । सहिरः पर्वतः । वहीं प्रापणे । वहिरः बलीवदः । ॐ शब्दे । कविर: अक्षिकोणः । स्रं गतौ । सरिरं जलम् । लत्वे, सलिलम् ॥ शवशशेरिश्चातः | ४१३ || अभ्यामिरः प्रत्ययोऽकारस्य चेकारो भवति । शब गतौ तालव्यादिः । शिबिरम् सैन्यसन्निवेशः । शश प्लुतिगतौ । शिशिरं शीतलम् ऋतु ॥ श्रन्थेः शिथू च ॥ ४१४ ॥ श्रथु शैथिल्ये इत्यस्मादिरः प्रत्ययोऽस्य च शिथ् इत्यादेशो भवति । शिथिरं श्लथम् । लत्वे, शिथिल || अशेति ॥ ४१५ || अनारश्नोतेर्वा णिदिरः प्रत्ययो भवति । आशिरः विष्णुः आदित्यश्च । प्राशिरः बह्वाशो || शुषीषिवन्धिरुधिरुचिमुचिमुहि मिहितिमिमुदिखिदिच्छिदिभिदिस्थाभ्यः किल ॥ ४१६ || एभ्यः किदिरः प्रत्ययो भवति । शुषंच् शोषणे । शुषिरं छिद्रम् । इषत् इच्छायाम् । इषिरं तृणम् । इषिरः अग्निः आहारः क्षिमः सेव्यथ । बन्धं बन्धने । बधिरः श्रुतिविकलः । रुपी आवरणे । रुधिरं द्वितीयो धातुः । रुचि अभिमीत्यां च । रुचिरं दयितं दीप्तिमच्च । मुच्लुन्ती मोक्षणे । मुचिरः धर्मः सूर्यः मेषश्च । हौ वैचित्ये । मुहिरः कन्दर्पः सूर्यश्च । मुहिरं तमः । मिहं सेचने । मिहिरः मेघः सूर्यश्व । मिहिरं तोयम् । तिमच् आर्द्रभावे । तिमिरं तमः तोयं रोग कश्चित् । मुदि हर्षे । मुदिरः मेघः सूर्यथ । खित् परिघा । खिदिर: त्रासः तस्करथ । छिपी द्वैधीकरणे । छिदिर: उन्दुरः अग्निश्च । छिदिरं शस्त्रम् | भिषी विदारणे । भिदिः अशनिः भेदश्च । ष्ठां गतिनिवृत्तौ । स्थिरः अचलः । स्थविरपिटिरस्फिराजिरादयः ॥ ४१७ ॥ एते कि
1