________________
हेमप्रभा
ARRRRRRRRRRRK
| दिरपत्ययान्ता निपात्यन्ते । तिष्ठतेर्वोऽन्तो इस्वश्च । स्थविरः वृद्धः । पचतेरत इत्वं ठश्च । पिठिरं साधनभाण्डम् । पिठेर्वा रूपम् । स्फायतेर्डिच्च । स्फिरः स्फारः वृदिश्च । अजेर्वीभावाभावश्च । अजिरम् अङ्गणम् नगरं देवः धेश्म च ।
उणादयः आदिग्रहणादन्येऽपि|कृशृप्पूरामनिकुटिकटिपटिकण्डिशौण्डिहिंसिभ्यः ईरः॥११८॥कृत विक्षेपीकरीरः वनस्पति- प्रक० विशेषः वंशायङ्कुरश्च । शृश् हिंसायाम् । शरीरं वपुः । पृश् पालनपूरणयोः । परीरं बलं लाङ्गलमुखं च पूग्णू पवने ।
पवीरं रङ्गस्थानं फलं पवित्रं बीजावपन च । मनिः सौत्रः। मोरं नूपुरः। कुटत् कौटिल्ये । कुटीरम् आलय: कर्कटक: चन्द्राश्रयराशिश्च । कोटीरं मुकुटः । बाहुलकाद्गुणः । कटे वर्षावरणयोः । कटीरं जनपद: जघनं जलं च । पट गतौ । पटीरः कन्दपः । पटीरं कार्मुकम स्फिक् च । कडु मदे । कण्डीरं हरितकम् । शौण्ड गर्वे । शौण्डीरः गवितः सत्त्ववान् तीक्ष्णश्च । हिसुपु हिंसायाम् । हिंसीरः श्वापदः हिंस्रश्च ॥ घसिवशिपुटिकुरिकुलिकाभ्य किन्ः ॥ ॥४१९ । एभ्यः किदीरः प्रत्ययो भवति । घस्लं अदने । क्षीरं दुग्धं मेघश्च । वशक् कान्तौ । उरीरं वीरणीमूळम् । पुटव संश्लेषणे । पुटीरः कर्मः । कुरत् शन्दे । कुरीरं मैथुनं वेश्म च । कुरीरः मालाविशेषः कम्बलश्च । कुल बन्धुसंस्त्यानयोः । कुलीरः कर्कटः । के शब्दे । कीरः शुकः काश्मीरकश्च ॥ कशेर्मोऽन्तश्च ॥ ४२०॥ कश शब्दे इत्यस्मात्तालन्यान्तादीरः प्रत्ययो मश्चान्तो भवति । कश्मीरा जनपदः॥ वनिवपिभ्यां णित् ॥ ४२१॥ आभ्यां णिदीरः प्रत्ययो भवति । वन भक्तौ । वानीरः वेतसः । डु वपी बीजसंताने । वापीरः मेघः अमोघः निष्पत्तिः क्षेत्रं च ॥ज-18 म्बीराभीरगभीरगम्भीरकुम्भीरभडीरभण्डीरडिण्डीरकिर्मीरादयः॥ ४२२ ॥ एते ईरमत्ययान्ता निपात्यते । जनेऊऽन्तश्च । जम्बीरः । वृक्षविशेषः आप्नोतेर्भश्च । आभीरः शूद्रजातिः । गर्भः स्वरान्नस्तु वा । गम्भीरः अगाधः अचपलश्च । गम्भीरः स एव । स्कुम्भेः सौत्रात् सलोपश्च । कुम्भीरः जलचरः। भडुछ । परिभाषणे । अस्य