________________
हेमप्रभा
१११५।
स्वरान्नोऽन्तश्च । कुञ्जरः हस्ती । अजेरगश्चान्तः बीभावाभावश्च । अजगरः शयुः । आदिग्रहणात् कोठराडङ्गरशापाण्डरवानरादयो भवन्ति ॥ मुदिगूरिभ्यां द्विजौ चान्तो ॥ ४०४ || आभ्यां टिदरः प्रत्ययो गकारजकारौ च यथासंख्यमन्तौ भवतः । मुदि हर्षे । मुद्गरः प्रहरणविशेषः । मुद्गरी स्त्री । गुरैचि गतौ । गूर्जरः सौराष्ट्रादिः । गूर्जरी स्त्री ॥ अग्यमिदिमन्दिकढिकसिका सिमृजिकक्षिकलिमलिकचिभ्य आरः || ४०५ ॥ अगारं वेश्म । अगु गतौ । अङ्गारः निर्वातज्वालो निर्वाणचोल्मूकावयवः भूमिसुतश्च । मदारः पानशोण्डः वराहः हस्ती अलसच । मन्दारः वृक्षविशेषः कडारः पिङ्गलः विषमदशनथ । कसारः हिंस्रः । कासारः पल्वलम् । मार्जारः बिडालः । कञ्जिः सौत्रः । कञ्जरः कुलजातिः यूपः व्यञ्जनं च । कलारः विषमरूपः । मकारः अलसः । प्रलमिवारा वोदोऽस्येति वा मकारः । कचारः अपनेयः तृणबुसपांसुविकारः ॥ त्रः कादिः ॥ ४०६ ॥ दृ प्लवनतरणयोरित्यस्मात्ककारादिरारः प्रत्ययो भवति । तर्कारः वृक्षः ॥ कृगो मादिश्च ॥ ४०७ || करोतेर्मकारादिः ककारादिश्वारः प्रत्ययो भवति । कर्मारः लोहकारः । कर्कारः वृक्षः ॥ तुषिकुठिभ्यां कित ॥ ४०८ ॥ आभ्यां किदारः प्रत्ययो भवति । तुषंच तुष्टौ । तुषारः हिमम् । कुठिः सौत्रः । कुठारः परशुः ॥ कमेरत उच्च ॥ ४०९ ॥ कमूह कान्तावित्यस्मादार ः प्रत्ययो ऽकारस्य चोकारो भवति । कुमारः महासेनः अभ्रष्ट बालश्च ॥ कनेः कोविदकर्बुदकाश्चनाश्च ॥ ४१० ॥ कनै दीप्तावित्यस्मादारः प्रत्ययोsस्य च कोविद कर्बुद कश्चन इत्यादेशा भवन्ति । कोविदारः कर्बुदारः काञ्चनारथ वृक्षविशेषाः ॥ द्वारशृङ्गारभृङ्गारकहार कान्तार केदारखारडादयः ॥ ४११ एते आरप्रत्ययान्ता निपात्यन्ते । उम्भत् पूरणे द्वादेशच । द्वारं द्वाः । श्रयतेस्तालव्यादिः शृङ्गथ । शृङ्गारः रसविशेषः विदग्धता च । भृगो भृङ्ग् च । भृङ्गारः हस्तिमुखाकार गलन्तिका । कलेर्हश्च स्वरात्परः । कहार उत्पल विशेषः । कमेस्वोऽन्तो दीर्घश्व । कान्तारमरण्यम् । कदेः
उणादयः प्रक०
||११५।