________________
45
45
२४४४२६२४६२
.4CRESS
एतावाय्यमत्ययान्तो निपात्येते । दधिपूर्वात् स्यतेः षत्वं च । दधिषाय्यं पृषदाज्यम् मृषावादी च । दीव्यतेदर्दीधीषु च । दीधीषाय्यं तदेव ॥ कौतेरियः ।। ३७५ ।। कुंक शब्दे इत्यस्मात् इयः प्रत्ययो भवति । कवियं खलीनम् ॥ कृगः कित ॥ ३७६ ॥डु कंर करणे इत्यस्मात् किदियः प्रत्ययो भवति । क्रियो मेषः ॥ मृजेर्णालीयः ॥ ३७७ ॥ मजौक शुद्धौ इत्यस्माण्णालीयः प्रत्ययो भवति । मीर्जालीयम् पापशोधनम् । मार्जालीयः अग्निः । मृजोऽस्य वृद्धिरिति वृद्धिः । णकार उत्तरार्थः । तेस्तादिः ॥३७८ ॥ बींक प्रजनादावित्यस्मात्तकारादिणिदालीयः प्रत्ययो भवति । वैतालीयं छन्दोजातिः ॥ धाग्राजिशृरमियाज्यर्तेरन्यः ॥३७९ ।। दु धांगरु धारणे च । धान्यं सस्यजातिः । राजग दीप्तौ । राजन्यः ज्योतिः अग्निः क्षत्रियश्च । शश हिंसायाम् । शरण्यः त्राता । रमि क्रीडायाम । रमण्यं शोभनम् । यजी देवपूजादी । याजन्यः क्षत्रियः यज्ञश्च । क् गतो। अरण्यं वनम् ॥ हिरण्यपर्जन्यादयः ॥ ३८०॥ हिरण्यादयः शन्दा अन्यपत्ययान्ता निपात्यन्ते । हरतेरिच्चातः । हिरण्यं सुवर्णादि द्रव्यप । परिपूर्वस्य पृष् सेचने इत्यस्योपसर्गान्तलोपो धातोश्च जः समस्तादेशः गजेतेर्वा गकारस्य पकारः । पर्जन्यः इन्द्रः मेघः शङ्कः पुण्यं कुशलं च करा आदिग्रहणादन्येऽपि ॥ वदिसहिभ्यामान्यः ॥ ३८१ ॥ आभ्यामान्य प्रत्ययो भवति । वद व्यक्तायां वाचि । वदान्यः दाता गुणवान् चारुभाषी वा । पहि मर्षणे । सहान्यः शैलः ॥ वृङ एण्यः ॥ ३८२ ॥ वृश सभक्तावित्यस्मादेण्यः प्रत्ययो भवति । वरेण्यः परं ब्रह्म धाम श्रेष्ठः प्रजापतिः अन्नं च ॥ मदेः स्यः ॥ ३८३ ॥ मदैच हर्षे ६ इत्यस्मात स्यः प्रत्ययो भवति । मत्स्यः मीनः धूर्तश्च ॥ रुचिभुजिभ्यां किष्यः ॥ ३८४ ॥ रुचिभुजिभ्यां किदिष्यः प्रत्ययो भवति । रुचि अभिप्रीत्यां च । रुचिष्यः वल्लभः सुवर्ण च । भुजप् पालनाभ्यवहारपो।। भुजिष्यः आचार्य: भोक्ता अन्नं मृदु ओदनः दासश्च । भुजिष्यं धनम् ॥ वच्यर्थिभ्यामुष्यः ॥ ३८५ ।। आभ्यामुष्यः प्रत्ययो भवति । 8
२ ४२८१
%