________________
श्रान्तादेशो भवति वा ॥ विभेत्यस्मादिति भीष्मः भयानकः । भीमः स एव ॥ तिजियुजे च ॥ ३४५ ॥ आभ्यां कित् मः प्रत्ययो गकारथान्तादेशो भवति ॥ तिजि क्षमानिशानयोः । तिग्मं तीक्ष्णं दीप्तं तेजश्च । युपी योगे । युग्मं युगलम् || रुक्मग्रीष्मकूर्मसूमंजाल्म गुल्मनो म परिस्तो मसूक्ष्मादयः ॥ ३४६ ॥ एते किन्मप्रत्ययान्ता निपात्यन्ते । रोचतेः क च । रुक्मं सुवर्ण रूप्यं च । प्रसेग्रषु च । ग्रीष्म ऋतुः । कुरतेर्दीर्घश्च । कूर्मः कच्छपः । षूत् प्रेरणे इत्यम्माद्रोऽन्तश्च भवति । सूम लोहप्रतिमा चुल्लिश्च जल घात्ये दीर्घव । जाल्मः निकृष्टः । गुप्च् व्याकुलत्वे लथ । गुल्मः व्याधिः तरुसमूहः वनस्पति: सेनाङ्गं च । गुल्मप आयस्थानम् । जिघतेरोत्वं च । घोमः यज्ञाङ्गलक्षणः सोमः । परिपूवत् स्वौतेः षत्वाभावो गुणश्च । परिस्तोमः यज्ञविशेषः । सूचणू पैशुन्ये कत्वं षोऽन्तश्च । सूक्ष्मः निपुणः । सूक्ष्मम् अणु। आदिग्रहणात् क्ष्मादयो भवन्ति ॥ सृष्टृप्रथिचरिकडिकर्देरमः ॥ ३४७ ॥ सरमा देवशुनी । परम उत्कृष्टः । प्रथमः आग्रः । चरमः पश्चिमः । कडमः शालिः । ऋफिडादित्वाल्लत्वे, कलपः स एव । कर्दमः पङ्कः॥ अवेधूं च वा । ३४८ ॥ अव रक्षणादावित्यस्मादमः प्रत्ययो धश्वान्तादेशो वा भवति । अधमः अवमश्च हीनः । कुट्टिवेष्टिरिपिषिसिचिगपितृमहिभ्य इमः ॥ ३४९ ॥ कुट्टिमः संस्कृतभूतलम् । वेष्टिमं पुष्पबन्धविशेषः भक्ष्य विशेषश्च । पूरिमं मालाबन्धविशेषः भक्ष्य विशेषश्च । पेषिमं भक्ष्य विशेषः । सेचिमं मालाविशेषः । गणिमं गणितम् । ऋक् गतौ णौ पौ, अर्पिमं बालवत्साया दुग्धम् । वरिमं तुलोन्मेयम् । महिमं पूजनीयम् ॥ वयिमखचिमादयः ॥ ३५० ॥ वयिमादयः शब्दा इमप्रत्ययान्ता निपात्यन्ते । वेंय् तन्तुसन्ताने वयादेशच । वयिमं माल्यं कन्दुकः तन्तुवायदण्डश्च । खन्ग् अवदारणे चश्च । खचिमं मणिलोहविद्धं घृतविहीनं च दधि । आदिशब्दादन्येऽपि ॥ उद्वटिकुल्य लिकुथिकुरिकुटिकुडिकुसिभ्यः कुमः ॥ ३५१ ॥
मः परिक्षेपः । कुलुमः उत्सवः । अलुमः प्रसाधनम् नापितः अग्निश्च । कुथुमः ऋषिः । कुथुमं मृगाजिनम् । कुरुमः