________________
गर्द शब्दे । गर्दभः खरः। राम शन्दे । रासमः स एव । रमि क्रीडायाम् । रममा प्रहर्षः। वडः सौत्रः। वडभी वेश्मायभूमिका । ऋफिडादित्वाल्लत्वे वलभी। वल्लि संवरणे । वल्लभः स्वामी दयितश्च ॥ सनेडित् ॥ ३३०॥ पण भक्तावित्यस्मात् डिदभः प्रत्ययो भवति । सभा परिषद शाला च ॥ ऋषिवृषिलुसिभ्यः कित् ॥ ३३१ ॥ एभ्यः किभः प्रत्ययो भवति । ऋषत् गतौ । वृष सेचने । ऋषभः वृषभश्च पुङ्गवः भगवांश्चादितीर्थकरः। ऋषभः वायुः । लुसिः सौत्रः। लुसभः हिंस्रः मत्तहस्ती वनं च ॥ सिटिकिभ्यामिभः सैरटिटौ च ॥ ३३२ ॥ आभ्या- मिमः प्रत्ययो दन्त्यादि: सैरः रिदृश्चादेशौ यथासंख्यं भवतः। पिंगट् बन्धने । मैरिभः महिषः । रिकि गतौ । ठिहिमः पक्षी॥ ककेरुभः॥ ३३३ ॥ ककि कौल्ये इत्यस्मादुभः प्रत्ययो भवति । ककुभः अर्जुनः॥ कुके कोऽन्तश्च ॥३३४ ॥ कुकि आदाने इत्यस्मादुभः प्रत्ययः कश्चान्तादेशो भवति । कुकुभः पक्षिविशेषः ॥ दमो दुण्ड् च ॥३३॥ दमूच उपशमे इत्यस्मात् उभः प्रत्ययोऽस्य च दन्त्यादिष्टवर्गतृतीयान्तो दुण्ड् इत्यादेशो भवति । दुण्डुभः निर्विषाहिः ॥ कृकलेरम्भः ॥ ३३६ ।। डु •ग करणे । करम्भः दधिसक्तवः । कलि शब्दसंख्यानयोः । कलम्भः ऋषिः॥ काकुसिभ्यां कुम्भः ॥ ३३७ ॥ आभ्यां किदुम्भः प्रत्ययो भवति । के शब्दे । कुम्भः घटः राशिश्च । कुसच् श्लेषणे कुसुम्भ महारजनम् ।। अर्तीरिस्तुसुमधुमक्षियक्षिभावाव्याधापायावलिपदिनीभ्यो मः॥ ३३८ ॥ ऋक गतौ । अर्यः अक्षिरोगः ग्रामः स्थलं च । ईरिक गतिकम्पनयोः। ईमै व्रणः । ष्टुंगक स्तुतौ । स्तोमः समूहः यज्ञः स्तोत्रं च । पुंगट अभिषवे । सोमः चन्द्रः वल्ली च । हुंछ दानादनयोः । होमः आदुतिः । सं गतौ। समः नदः कालश्च । समै स्थानं मुखं च । धू सेचने । धर्मः ग्रीष्मः । धृहत स्थाने । धर्मः उत्तमक्षमादिः न्यायश्च । शुश हिंसा- 15 याम् । शर्म सुखम् । क्षित निवासगत्योः । क्षेमं कल्याणम् । यक्षिण पूजायाम् । यक्ष्मः व्याधिः। भांक दीप्तौ ।
AAWAR**6*6***RESS