SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रक० कादम्बः हंसः। कदम्बः वृक्षजातिः ॥ शिलविलादेः कित् ॥३१३ ॥ शिलादिभ्यः किदम्बः प्रत्ययो भवति । शिलन् उच्छे । शिलम्बः ऋषिः तन्तुवायश्च । क्लित वरणे । विलम्बः वेषविशेषः रगावसरश्च । आदिग्रहणादन्येऽपि ॥ उणादयः हेमप्रभा 75हिण्डिविले: किम्बो न लुकूच ॥३२४ ॥ आभ्यां किदिम्बः प्रत्ययो नस्य च लुग् भवति । हिडुछ गतौ च । १०८ विलत् वरणे । हिडिम्ब विलिम्बश्च राक्षसौ ॥ डीनीवन्धिशधिचलिभ्यो डिम्बः ॥ ३२५ ॥ एभ्यो डिदिम्बा * प्रत्ययो भवति । डीज विहायसा गतौ । डिम्ब राजोपद्रवः । णींग पापणे । निम्बः वृक्षविशेषः। बन्धंथ बन्धने । बिम्ब प्रतिच्छन्दः देहश्च । बिम्बी वल्लिजातिः । शधूर शन्दकुत्सायाम् । शिम्बः मृगजातिः। शिम्बी निष्पाववल्लो च चल कम्पने । चिम्बा यवागूजातिः ॥ कुट्युन्दिचुरितुरिपुरिमुरिकुरिभ्यः कुम्बः ॥ ३२६ ॥ एभ्यः किदुम्बः ५ है प्रत्ययो भवति । कुटन कौटिल्ये । कुटुम्ब दारादयः । उन्दैप् क्लेदने । उदुम्बः समुद्रः । चुरण स्तेये । तुरण त्वरणे : सौत्रः । चुरुम्बः तुरुम्बश्च गहनम् । पुरत् अग्रगमने । पुरुम्बः आहारः । मुरत संवेष्टने । मुरुम्बः मृद्यमानपाषाणचूर्णम् । कुरत शन्दे । कुरुम्बः अङ्कुरः । निपूर्वाद निकुरुम्बः राशिः ॥ गुदरमिहनिजन्यतिदलिभ्यो भः ।। ३२७ ॥ गृत निगरणे । गर्भः जठरस्थः प्राणी। दृश् विदारणे । दर्भः कुशः । रमि क्रीडायाम् । रम्भा अप्सराः कदली च । हनंक * हिंसागस्योः । हम्भा गोधेनुनादः । जनैचि प्रादुर्भावे । जम्भः दानवः दन्तश्च । जम्मा मुखविदारणम् । ऋक् गतौ । अभः शिशुः । दल विदारणे । दल्भः ऋषिः वल्कलं विदारणं च ॥ इणः कित् ॥ ३२८ ॥ इण्क् गतावित्यस्मात् किद्भः प्रत्ययो भवति । इभा इस्ती ॥ कृशगृशलिकलिकडिगर्दिरासिरमिवडिवल्लेरभः ॥ ३२९ ॥ कृव विक्षेपे । करमः त्रिवर्ष उष्ट्रः । शश हिंसायाम् । शरभः श्वापदविशेषः । व निगरणे । गरमा उदरस्थो जन्तुः । पलफलशल गतौ । शलभः पतङ्गः। कलि शब्दसंख्यानयोः । कलभः हस्ती यौवनाभिमुखः । कडत् मदे । कडभः हस्तिपोतकः॥
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy