________________
३१२ ॥ अशौटि व्याप्तावित्यस्मादूपः प्रत्ययः पश्चान्तादेशो भवति । अपूपः पक्वान्नविशेषः || सर्तेः षषः || ३१३ ॥ सर्षपः रक्षोघ्नं द्रव्यम् शाकं च ॥ रोशीभ्यां फः ॥ ३१४ ॥ च् श्रवणे । रेफः कुत्सितः । शङक् स्वप्ने । शेफः मेदुः || कलिगलेरस्योच्च ॥ ३१५ || आभ्यां कः प्रत्ययोऽस्य चोकारो भवति । कलि शब्दसंख्यानयोः, गल अदने । कुल्फः गुल्फः जङ्घाङ्घ्रिप्रसन्धिः । गुल्फः पदोपरिग्रन्थिः । शफकफशिफाशोफादयः || ३१६ ।। शफादयः शब्दाः प्रत्ययान्ता निपात्यन्ते । इयतेः कायतेश्च ह्रस्वश्च । शफः खुरः प्रियंवदश्च । कफः श्लेष्मा । श्यतेरित्वमोत्वं च | शिफा वृक्षजटा । शोफः श्वयथुः खुरश्र । आदिशब्दात् रिफानफासुनफादयो भवन्ति ॥ वलिनितनिभ्यां वः ॥ ॥ ३१७ ॥ वलि संवरणे निपूर्वाच्च तनूयी विस्तारे इत्यस्माच्च वः प्रत्ययो भवति । वल्बः वृक्षः । नितम्बः श्रोणिः पर्वतैकदेशः नटश्च ॥ शम्यमेणिद्वा ॥ ३१८ || आभ्यां वः प्रत्ययः स णिद्वा भवति । शमूत्र उपशमे । शम्बः वज्रः कर्षणविशेषः वेणुदण्डः तोत्रम् अरित्रं च । शम्बशाम्बौ जाम्बवतेयौ | अम्बा माता । आम्बः अपह्नवः ॥ शल्यलेख्चातः ॥ ३१९ || आभ्यां वः प्रत्ययोऽकारस्य चोकारो भवति । पलफलशल गतौ । शुल्वं ताम्रम् | अली भूषण | रजत गर्भवेष्टनम् । शुल्वं बभ्रुः तरक्षुच ॥ तुम्बस्तम्बादयः ॥ ३२० ॥ तुम्वादयः शब्दा बमत्ययान्ता निपात्यन्ते । ताम्यतेरत उच्चं च । तुम्बम् अलाबु चक्राङ्गं च । स्तम्भेर्लुक् च । स्तम्बः तृणं विटपः संघातः अङ्कुरसमुदायः स्तबकः पुष्पापीडच । आदिग्रहणात् कुशाम्वादयो भवन्ति ॥ कृकडिकटिवटेरम्बः || ३२१ ॥ raise प्रत्ययो भवति । डु कुंग करणे । करम्बः दध्योदनः दविसक्तवः पुष्पं च । कडत् मदे । कडम्बः जातिविशेषः जनपद विशेषश्च । कटे वर्षावरणयोः । कटम्बः पक्वान्नविशेष: वादित्रं च । कदम्बकटम्बौ वृक्षौ च । वट वेष्टने । वटम्बः शैलः तृणपुञ्जश्च ॥ कदेणिवा ॥ ३२२ ॥ कद वैक्लव्ये इत्यस्मात् सौत्रादम्बः प्रत्ययः स च णिद्वा भवति ।