________________
बुबुदसंघातः । चहेरिच्चोपान्त्यस्य । चिह्नभिज्ञानम् । बन्धेअधूच । अध्नः रविः प्रजापतिः ब्रह्मा स्वर्गः पृष्ठान्तश्च । धयतेरेत्वं च । धेना सरस्वती माता च । धेनः समुद्रः । इत्वं चेत्येके । धीना । स्त्यायेस्ते च । स्तेन: चौरः । च्यवते. वृद्धिः कोऽन्तश्च । योक्नमक्षस्थानम् अनुजः क्षीणमपुण्यश्च । च्यौक्नी कांस्यादिपात्री । आदिशब्दादन्येऽपि वसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिमण्डिमदिदहिवह्यादेरनः ॥ २६९ ॥ युक् मिश्रणे । यवनाः जनपदः
यवनं मिश्रणम् । असूच क्षेपणे । असनः बोजकः । रसण् आस्वादनस्नेहनयोः । रसना जिह्वा । रुचि अभिहै प्रीत्यां च । रोचना गोपित्तम् । रोचनः चन्द्रः । विपूर्वाद्रोचतेः विरोचनः अग्नि, सूर्यः इन्दुः दानवश्च । जि अभिभवे
। जयनम् ऊर्णापटः । टु मस्जीत शुद्धौ । मजनं स्नानं तोयं च । देवर देवने । देवनः अक्षः कितवश्च । स्यन्दौङ स्त्रवणे । स्यन्दनः रथः । चदु दीप्त्याह्नादनयोः । चन्दनं गन्धद्रव्यम् । मदुछ स्तुत्यादौ । मन्दनं स्तोत्रम् । मडु भूषायास । मण्डनमलङ्कारः । मदैच हर्षे । मदनः वृक्षः कामः मधूच्छिष्टं च । दहं भस्मीकरणे । दहनः अग्निः । वहीं प्रापणे । वइन नौः । आदिग्रदणात् । पचेः पचनः अग्निः । पुनातेः पवनः वायुः । विभतः भरणं साधनम् । नयतेनयनं नेत्रमाद्यते द्योतनः आदित्यः । रचेः रचना वैचित्र्यम् । गृजेः गृधनम् अभक्ष्यद्रव्यविशेषः । प्रस्कन्दनः प्रपतनः इत्यादयो भवन्ति ॥ अशो रश्चादौ ॥ २७० ।। अशोटि व्याप्तावित्यस्मात् अनः प्रत्ययो भवति आदी रेफश्च । रशना मेखला। रशिमेके प्रकृतिमुपदिशन्ति । सा च राशिरशनारश्मि इत्यत्र प्रयुज्यते इत्याहुः॥ उन्दे लुकु च ॥ २७१॥ उन्दै क्लेदने इत्यस्मात् अनः प्रत्ययो नलोपश्च भवति । ओदनः भक्तम् ॥ हनेर्घतजधौ च ॥ २७२ ॥ इनक हिंसागत्योरित्यस्मादनः प्रत्ययो घतजघावित्यादशौ चास्यभावतः । घतनः रङ्गोपजीवी पापकर्मा निर्लज्जश्च ।जघनं श्रोणिः ॥ तुदादिजिरनिनिधाभ्यः कित् ॥ २७३ ॥ एभ्यः किदनः प्रत्ययो भवति । तुदींव व्यथने । तदनः ।
UिRES