________________
कुरत् शब्दे । कुरिन्दः धान्यमलहरणोपकरणम् तेजनोपकरणं च । कुणत् शब्दोपकरणयोः । कुणिन्दः म्लच्छः शब्द उपकरणं च || मण शब्दे । मणिन्दः अश्वबल्लवः । कुपेर्व च वा ॥ २४७ ॥ कृपच् क्रोधे इत्यस्मादिन्दम् प्रत्ययो - वान्तादेशो वा भवति । कुपिन्दः कुविन्दः तन्तुवायः ॥ पुपलिभ्यां णित् ॥ २४८ ।। आभ्यां णिदिन्दक् प्रत्ययो भवति । पृश् पालनपूरणयोः । पल गतौ । पारिन्दः । पालिन्दः । द्वावपि वृक्षगाथकौ । पारिन्दो मुख्यः पूज्यश्च । पालिन्दो नृपतिः | रक्षकश्चेत्येके || यमेरुन्दः || २४९ । यमूं उपरमे इत्यस्मादुन्दः प्रत्ययो भवति । यमुन्दः क्षस्त्रियविशेषः ॥ मुचेर्युकुन्दकुकुन्दौ ॥ २५० ॥ मुलंनी मोक्षणे इत्यस्मात् डित् उकुन्दः किदुकुन्दश्व प्रत्ययौ भवतः । मुकुन्दः विष्णुः । मुचुकुन्दः राजा वृक्षविशेषश्च ॥ स्कन्द्यमियों धः || २५१ || आभ्यां घः प्रत्ययो भवति । स्कन्द गतिशोषणयोः । स्कन्धः बाहुमूर्धा ककुदं विभागश्च । बाहुलकात् दस्य लुक् । अप गतौ । अन्यः चक्षुर्विकलः ॥ नेः स्यतेरधक || २५२ || निपूर्वात् षच् अन्तकर्मणि इत्यस्मादधक् प्रत्ययो भवति । निषधः पर्वतः । निषधाः जनपदः मङ्गेर्नलुक् च ॥ २५३ ॥ मनु गतावित्यस्मादधक् प्रत्ययो नकारस्य च लुगू भवति । मगधाः जनपदः ॥ आरगेर्वधः ॥ २५४ ॥ अपूर्वा शङ्कायामित्यस्माद्वधः प्रत्ययो भवति । आरग्वधः वृक्षजातिः ॥ पराच्छ्रो डित ।। २५५ ।। २५५ ॥ परपूर्वात् पृश् हिंसायामित्यस्मात डित् वधः प्रत्ययो भवति । परश्वध आयुधजातिः ॥ इषेरुधक् ।। २५६ ॥ इषत् इच्छायामित्यस्मादुधक् प्रत्ययो भवति । इषुः याञ्चा | कोरन्धः ॥ २५७ ॥ कुंङ् शब्दे इत्यस्मादन्धः प्रत्ययो भवति । कबन्धः छिन्नमूर्धा देहः || प्याधपन्यनिस्वदिस्वपिवस्यज्यतिसिविभ्यो नः ॥ २५८ ॥ प्यै वृद्धो । ध्यानः समुद्रः चन्द्रव । डु धांग्क्रू धारणे च । धाना भृष्टो यवः अङ्कुरश्च । पनि स्तुतौ । पन्नं नीचैः करणम् सन्नं जिह्वा च । अनक् प्राणने । अन्नं भक्तम् आचारथ । ध्वदि आस्वादने । स्वन्नं रुचितम् । विष्वक शये । स्वप्नः