________________
दरोर्वा ॥ २३५ ॥ रुक शब्दे इत्यस्मादयः प्रत्ययः स च किवा भवति । रुवयः शकुनिः शिशुश्च । रवथः आफन्दा देसमा शब्दकारश्च ॥ जत्रभ्यामूथः ।। २३५ ॥ जुषच जरसि । जरूथः शरीरम अग्रमांसम अग्निः संवत्सरः मार्गः कल्मषं . उणादयः
च ॥ वधु वरणे । बरूयः वर्म सेनाङ्गं बलसंघातश्च ॥ शाशपिनिकनिभ्यो दः ॥ २३७ ॥ शोंच तक्षणे। शादः ।१०३ कर्दमः तरुणणं मृदुः बन्धः सुवर्ण च । शपी आक्रोशे । शब्दः श्रोत्रग्राह्योऽर्थः । मनिच ज्ञाने । मन्दः अलसः बुद्धि
हीनश्च । कनै दीप्त्यादिषुः । कन्दः मूलम् ॥ आपोऽप् च ॥ २३८ ॥ आप्लंट व्याप्त्यावित्यस्माइः प्रत्ययो भवनि
अस्य चाप इत्ययमादेशश्च । अब्दं वर्षम् ॥ गोः कित् ॥२३९ ॥ गुंत् पुरीषोन्सर्गे इत्यस्मात् कित् दा प्रत्ययो भवति । ४/ गुदम् । अपानम् ॥ वृतुकुसुभ्यो नोऽन्तश्च ॥ ४० ॥ एभ्यः कित दः प्रत्ययो नकारश्चान्तादेशो भवति । दृग्द
वरणे । वृन्दै समृहः । तुक वृत्त्यादिषु । तुन्दं जठरम् । कुछ शन्दे । कुन्दः पुष्पजातिः । डुंगट् अभिषवे । सुन्दः दा. *नवः ॥ कुसेरिदेदौ ॥ २४१ ।। कुसिदम् । ऋणम् । कुसीदं वृद्धिजीविका ॥ इङग्यबिभ्यामुदः ॥ २४२ ॥ इगु
गती । इङ्गुदः वृक्षजातिः । अब गौ । अर्बुदः पर्वत: अक्षिव्याधिः संख्याविशेषश्च । निपूर्वात् न्यर्बुदम् संख्याविशेषः ॥ ककेर्णिद्वा ।। ४३ ॥ काकुदं तालु । ककुदं कन्धः कुमुदबुद्बुदादयः ॥ २४४ ॥ एते उदप्रत्ययान्ता - पात्यन्ते । कमेः कुम च । कुमुदं करवम् । बुन्देः कित बोऽन्तश्च । बुबुदः जलम्फोटः । बुबुदं नेत्रजो व्याधिः। आदिग्रहणात दुहीक क्षरणे प्रत्ययादेरत्वे, दोहदः अभिलाषविशेषः । एवमन्येऽपि ।। ककिमकिभ्यामन्दः ॥२४५ ॥ आ. भ्यामन्दः प्रत्ययो भवति । ककि लौल्ये । पकिः सौत्रः । ककन्दः मकन्दश्च राजानौ। यकाभ्यां नित्ता काकन्दी माकन्दी च नगरी ॥ कल्यलिपुलिकुरिकुणिमणिभ्य इन्दक ॥ २४६ ॥ कलि शब्दसंख्यानयोः । कलिन्दः पर्व-& तः। यतो यमुना प्रभवति । अली भूषणादौ । अलिन्दः प्रघाणः भाजनं स्थानं च । पुल महवे । पुलिन्द: शबरः ।
२२****