________________
हेमप्रभा
॥१०२॥
दुष्यन्तादयः ॥ २२२ ॥ एतेऽन्तप्रत्ययान्ता निपात्यन्ते । सिनोतेः सीम् च । सीमन्तः केशमार्ग : ग्रामक्षेत्रान्तश्च । ह निर्वाहे च । हेमन्तः ऋतुः । भन्दतेर्नलुक् च । भदन्तः निर्ग्रन्थेषु शाक्येषु च पूज्यः । दुषेयोऽन्तश्च । दुष्यन्तः | राजा । आदिग्रहणादन्येऽपि ॥ शकेरुन्तः २२३ ॥ शक्लं शक्तावित्यस्मादुन्तः प्रत्ययो भवति । शकुन्तः पक्षी ॥ कषेति ॥ २२४ ॥ कप हिंसायामित्येतस्मात् डिदुन्तः प्रत्ययो भवति । कुन्तः आयुधम् || कमिप्रुगार्तिभ्यस्थः ॥ २२५ ।। कमूङ् कान्तौ । कन्था प्रावरणम् नगरं च । मुङ् गतौ । प्रोथः प्रियो युवा शूकरमुखं घोणा च । गैं शब्दे । गाथा श्लोकः आर्या वा । ॐ गतौ । अर्थः जीवाजीवादिपदार्थः प्रयोजनम् अभिधेयं धनं याच्या निवृत्तिश्च ॥ अवाद् गोऽच्च वा ।। २२६ ।। अवपूर्वाद्वायतेस्थः प्रत्ययोऽच्चान्तादेशो वा भवति । अवगथः अवगाथः अक्षसंघातः प्रातःसवनं रथयानं साम पन्थाच ॥ नीनूरमितृ तुविचिरिचिसि चिश्विहनिपागोपावोद्गाभ्यः कित् ॥ २२७ ॥ णींग् प्रापणे । नीथं जलम् । सुनीथो नाम राजा नीतिमान् धर्मशीलः ब्राह्मणश्च । शूत् स्तवने । नूयं तीर्थम् । रमिं क्रीडायाम् । रथः स्यन्दनः । दृ प्लवनतरणयोः । तीर्थ जलाशयावगाहनमार्गः पुण्यक्षेत्रमाचार्यश्च । तुदत् व्यथने • चक्षुष्यो धातुविशेषः ॥ वचक भाषणे । उक्थं शास्त्र सामवेदश्च । उक्थानि सामानि । रिपी विरेचने । रिक्थं धनम् । षिचत् क्षरणे । सिक्थं मदनं पुलाकश्च । वश्वि गतिवृद्धयोः । शुथः यज्ञप्रदेशः । हनक हिंसागत्योः । हथः पन्थाः कालच । पपाने । पीथं बालघृतपानम् अम्भः नवनीतं च । पीथः मकरः रविश्व । गोपूर्वात् गोपीथः तीर्थविशेवः गोनिपान जलद्रोणी कालविशेषश्च । मैं शब्दे । अवगीथम् । यज्ञकर्मणि प्रातः शंसनम् उद्गीथः शुनामूर्ध्वमुखानां वि रावः सामगानम् प्रथमोच्चारणं च ॥ न्युद्भ्यां शीङः ॥ २२८ ॥ निजपूर्वात् शी स्वप्ने इत्यस्मात् किल्यः प्रत्ययो भवति । निशीथः अर्धरात्रः रात्रिः प्रदोषश्च । उच्छीथः स्वप्नः टिट्टिभश्च ॥ अवभृनिर्ऋसमिणभ्यः ॥ २२९
थं
।
उणादयः
प्रक०
॥१०२॥