________________
मेघः गिरिव || कबेरोतः पुच ॥ २१७ ॥ कवृद्ध वर्णे इत्यस्मादोतः प्रत्ययः पश्चान्तादेशो भवति । कपोतः पक्षी afa || आस्फाडित् ।। २१८ ॥ आङ्पूर्वात् स्फायै वृद्धावित्यस्मात् डिदोतः प्रत्ययो भवति । आस्फोता नाम ओषधिः नृविशिभ्यामन्तः ॥ २१९ ॥ षच् जरसि । जरन्तः भूतग्रामः वृद्धः महिषश्च । विशेत् प्रवेशने । वेशन्तः पल्वलम् वल्लभः अप्राप्तापवर्गः आकाशं च ।। रुहिनन्दिजीविप्राणिभ्यष्टिदाशिषि ॥ २२० ॥ एभ्य आशिषि दिन्तः प्रत्ययो भवति । रुहं जन्मनि । रोहतात् रोहन्तः वृक्षः । रोहन्ती औषधिः ॥ टु नदु समृद्धी । नन्दतात् नन्दन्तः सखा आनन्दश्च | नन्दन्ती सखी । जीव प्राणधारणे । जीवतात् जीवन्तः आयुष्यमान् । जीवन्ती शाकः । अनक् प्राणने । प्राण्यात् प्राणन्तः वायुः रसायनं च । प्राणन्ती. स्त्री ॥ दृजिभूवदिवहिवसि भास्यदिसाघिमदिगडिंगण्डिमण्डिनन्दिरेविभ्यः ॥ २२१|| एभ्यष्टिदन्तः प्रत्ययो भवति । आशिषीत्येके । दृ प्लवनतरणयोः । तरन्तः आदित्यः भेक । तरन्ती स्त्री । जिं अभिभवे । जयन्तः रथरेणुः ध्वज इन्द्रपुत्रः जम्बूदीपपश्चिमद्वारम् पश्चिमानुत्तरविमान च । जयन्ती उदयनपितृष्वसा । भू सत्तायाम् । भवन्तः कालः । भवन्ती । वद वक्तायां वाचि । वदन्तः । द वहीं प्रापणे । वहन्तः रथः अनड्वान् रथरैणुः वायुश्च । वहन्ती । वसं निवासे । वसन्तः ऋतुः । भासि दीप्तौ । भासन्तः सूर्यः । भासन्ती । ण्यन्तोऽपि । भासयन्तः सूर्यः । अर्द भक्षणे । अदन्तः । अदन्ती । साधं संसिद्धौ । साधन्तः भिक्षुः । ण्यन्तोऽपि । साधयन्तः भिक्षुः । साधयन्ती । मदैच् हर्षे । णौ, मदयन्तः । मदयन्ती पुष्पगुल्मजातिः । गड सेचने | गडन्तः जलदः । व्यन्तोऽपि । गडयन्तः । गडयन्ती । गडु वदनैकदेशे व्यन्तः । गण्डयन्तः मेषः । मडु भूषायाम् ण्यन्तः । मण्डयन्तः प्रसाधकः अलंकारः आदर्शच ॥ दु नदु समृद्धौ ण्यन्तः । नन्दयन्तः सुखकृत् राजा हिरव्यं सुखं च । नन्दयन्ती । रेवृङ् पथि गतौ रेवन्तः सूर्यपुत्रः । अनुक्तार्था धान्वर्थंकर्त्रर्थाः ॥ सीमन्तहेमन्तभदन्त