________________
प्रक०
+
पृषू सेचने । पृषतः हरिणः । रजी रागे । रजत रूप्यम् । सिकिः सौत्रः । सिकता वालुका । के शन्दे । कतः गोत्रहेमप्रभा- कृत् । लांक आदाने । लता वल्ली । वृगट वरणे । व्रतं शास्त्रविहितो नियमः॥ कृवृकल्यलिचिलिविलीलिलाना- उणादयः
थिभ्य आता ।। २०९ ॥ एभ्य आतक् प्रत्ययो भवति । कृत विक्षेपे । किरातः शबरः । गट वरणे । व्रातः समूहः १०११ला
उत्सेधजीविसंघश्च । कलि शब्दसंख्यानयोः । कलातः ब्रह्मा। अली भूषणादौ । अलातम् । उन्मुकम् । चिलत् वसने । चिलाता म्लेच्छः । विलत् वरणे । विलातः शवाच्छादनवस्त्रम् । इलत् गत्यादौ । इलातः नगः । लांक आदाने । लातः मृत्तिकादानभाजनम् । नाथङ् उपतापैश्वर्याशीःषु । नाथात: आहारः प्रजापतिश्च ।। हृश्यारुहिशोणिपलिभ्य इतः ॥ २१० ॥ एभ्य इतः प्रत्ययो भवति । हुंग हरणे । हरितः वर्णः । श्यैङ् गती । श्येत: वर्णः मृगः मत्स्यः श्येनश्च । रुह बीजजन्मनि । रोहितः वर्णः मत्स्यः मृगजातिश्च ॥ लथे, लोहितः वर्णः । लोहितम् अमृक् । शोण वर्णगत्योः । शोणितं रुधिरम् । पल गतौ । पलितं श्वेतकेशः ॥ नत्र आपेः ॥ २११॥ नपूर्वादाप्लट् व्याप्त्यावित्यस्मादितः प्रत्ययो भवति । नापितः कारुविशेषः । शिपिशिषिकुषिकुस्युचिभ्यः किन ॥ २१२ ॥ एभ्यः किदितः प्रत्ययो भवति । क्रुशं आह्वानरोदनयो । शितं पापम् | पिशत् अवयवे । पिशितं मांसम् । पृषू सेचने । पृषितं वारिबिन्दुः । कुष्णू निष्कर्षे । कुषितं पापम् । कुसच् श्लेषे । कुसितः ऋषिः । कुसितम् ऋण श्लिष्टं च । उचच समवाये । उचितं स्वभाषः योग्य चिरानुयातं श्रेष्ठम् च ॥ हग ईतण ॥ २१३ ॥ हारीत: पक्षी ऋषिश्च ॥ अदो भुवो
डुतः ॥ २१४ ॥ अद्पूर्वात् भुवो डुनः प्रत्ययो भवति । अद् विस्मितं भवति तेन तस्मिन् वा मनः अद्भुतमार्यम् ॥ ला कलिमयिभ्यामूतकू ॥ २१५ ॥ आभ्यामूना प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः। कुलूताः जनपदः। मयि
गतौ । मयूता वसतिः ।। जीवेर्मश्च ।। २१६ ॥ जीव प्राणधारणे इत्यस्मादनक् प्रत्ययो भवति मन्तादेशश्च । जीमतः २०१॥