________________
न
HERECECAREEN
मर्थ्ये । कपाणः खङ्गः । विष सेचने । विषाण शाम करिदन्तश्च । वृष सेचने । वृषाणः विषाट् प्रागल्भ्ये । धुषाणः दादेवः । मृणु सहने च । मृषाणः । युषि सेवने सौत्रः । युषाणः । दुहीच जिघांसायाम । छहाणः मुखरः । ग्रही उपा
दाने । गृहाणः । वृषाणादयः स्वमकृत्यर्थवाचिनः सर्वेऽपि कर्तरि कारके ज्ञेयाः ।। पषो णित् ।। १९२ ॥ पषी बाधनस्पर्शनयोरित्यस्मादाणक् प्रत्ययो भवति स च णित् । पाषाणः प्रस्तरः ॥ कल्याणपर्याणादयः ॥ १९३ ॥ कल्याणादयः शब्दा आणप्रत्ययान्ता निपात्यन्ते । कलेयोन्तश्च कल्याण श्वोवसीयसम् । परिपूर्वादिणो लुक् च । पाँणम् अश्वादीनां पृष्ठच्छदः। आदिग्रहणात् ट्रेक्काणवोक्काणकेक्काणादयो भवन्ति ॥ हृवृहिदक्षिभ्य इणः ।।१९४॥ एभ्य इणः प्रत्ययो भवति । ९ गतौ । द्रविणं द्रव्यम् । हग हरणे । हरिणः मृगः । वृह वृद्धौ । बहिणः मयूरः । दक्षि शेषये च । दक्षिणा कुशलः । अनुकूलच । दक्षिणा दिक ब्रह्मदेयं च ॥ ऋदहे कित ॥ १९५ ॥ आभ्यां किदिणः प्रत्ययो भवति । ऋशु मतो । इरिणम् ऊपरम् कुनः वनदुर्ग च । दुहौच जिघांसायाम । द्रहिणः ब्रह्मा क्षुद्रजन्तुश्च ।। ऋकृवृध्दारिभ्य उणः ॥१९६ ॥ एभ्य उणः प्रत्ययो भवति । ऋक् गतौ अरुणः सूर्यसारथिः उषा वर्णश्च । कृव विक्षेपे । करुणा दया। करुणः करुणाविषयः। करुणं दैन्यम् । वृश भरणे। वरुणः प्रचेताः। धुंद धारणे । धरुणः धर्ता आयुक्तो लोकश्चः। दृश् विदारणे । णौ, दारुण उग्रः॥ क्षः कित् ॥ १९७ ॥ क्षये इत्यस्मात् किदणः प्रत्ययो भवति । क्षुणः व्याधिः क्षामः क्रोध उन्मत्तश्च ॥ भिक्षुणी ॥ १९८ ॥ भिक्षेरुणः प्रत्ययो कीश्च निपात्यते । भिक्षुणी व्रतिनी ॥ गादाभ्यामेष्णक ॥ १९८ ॥ आभ्यामेष्णक प्रत्ययो भवति । गैं शब्दे । गेष्णः मेषः उद्गाता रङ्गोपजीवी च । गेष्ण साम मुख च । रात्रिगेष्णः रनोपजीवी । मुगेष्णा किन्नरी । डु दांगक दाने । देष्णः बाहु। दानशीरश्च । चारुदेष्णः सात्यभामेयः । सुदेष्णा विराटपत्नी ॥ दम्यमितमिमावापूधूगृजहसिवस्यसिवितसिमसी
SASUAE