________________
भा
१९८॥
1
एतेऽत्ययान्ता निपात्यन्ते । विपूर्वान्तेरनो लुक्च । विहडः शकुनिः मूढचित्तश्च । कषेर्हः प्रत्ययाकारस्य चौकारः । कहो ः ऋषिः । कुरेर्गुणाभावश्च । कुरडः मार्जारः । किरतेः केर च । केरटः त्रैराज्ये राजा । कृगः कित् प्रत्ययाकारस्य चौकारः । क्रोढः किरिः अङ्कथ । आदिग्रहणाल्लहोडादयो भवन्ति ॥ कृतृसृभृवृभ्योऽण्डः ॥ १७३ ॥ जधू च् जरसि । जरण्ड: असोत वयस्कः । कृत विक्षेपे । करण्डः समुद्रः समुद्रः कृमिजातिश्च । वृ प्लवनतरणयोः । तरण्डः प्लवः वायुश्च । शृश् हिंसायाम् । शरण्डः हिंस्रः आयुधं च । सं गतौ । सरण्डः कृमिजातिः इषीका वायुः भूतसंघातः तृणसमवायश्च । टुडु भृंग्क् पोषणे च । भरण्डः भण्डजातिः पक्षी च । दृग्रह वरणे । वरण्डः कुडयम् तृणकाष्ठादिभारश्च ॥ पूगो गादिः ॥ १७४ ॥ पूग्गूपवने इत्यस्मात् । गकारादिरण्डः प्रत्ययो भवति । पोगण्ड : विकलाङ्गः युवा च ॥ वनेस्त च ॥ १७५ ॥ वन भक्तावित्यस्मादण्डः प्रत्ययो भवति तकाराचान्तादेशः । वतण्डः ऋषिः ॥ पिचण्डैरण्डखरण्डादयः ।। १७६ ।। एतेऽण्डप्रत्ययान्ता निपात्यन्ते । पिचेरगुणत्वं च पिचण्डः लघुलगुडः । ईरेर्गुणश्च । एरण्डः पचाङ्गुलः । स्वाह भक्षणे | अन्त्यस्वरादररादेशश्च । स्वरण्डः सर्वर्तुकम् । आदिग्रहणात् कुष्माण्डशयण्डशयाण्डादयो भवन्ति ॥ लगेरुडः ॥ १७७ ॥ लगे सङ्गे इत्यस्मात् उडः प्रत्ययो भवति । लगुडः यष्टिः । गृमृदृवृमृभ्यस्तु उडो बिहित एव ॥ कुशेरुण्डक्रू || १७८ ।। कुशच् श्लेषे इत्यस्मात् उण्डक् प्रत्ययो भवति । कुशुण्डः वपुष्मान् ॥ शमिषणिभ्यां ढः ॥ शमूच् उपशमे । शष्टः नपुंसकम् । षण भक्तौ । षण्ढः स एव । बाहुलकात्सत्वाभावः || कुणेः णित् ॥ १८०॥ कुणत् शब्दोपकरणयोरित्यस्मात् कित् ढः प्रत्ययो भवति । कुण्ढः धूर्तः । बाहुलकान्न दीर्घः ॥ नमः सहेः षा च ॥ १८१ ॥ पूर्वात् परिमर्षणे इत्यस्मात् ढः प्रत्ययः षा चास्यादेशो भवति । अषाढा नक्षत्रम् ॥ इणुर्विशाघेणिपिपणिभ्यो णः ॥ १८२ ॥ इण गतौ । एणः कुरङ्गः । उवै हिंसायाम्। उर्णा मेषादिलोम भ्रुवोरन्त
उणादयः
볶
॥ ९८ ॥