________________
स्तुत्योः । पण्डः शण्ठः । गणण संख्याने । गण्डः पौरुषयुक्तः पुरुषः ।मण शन्दे । मण्डः रश्मिः । अग्रम अन्नविकारश्च । वन भक्तौ । वण्डः अल्पशेफः निश्चर्माप्रशिश्नश्च । शमृदमृच् उपशमे । शण्डः उत्सृष्टः पशुः ऋषिश्च । दण्डः वनस्पतिप्रतानः राजशासनं नालं पहरणं च । रमि क्रीडायाम । रण्डः पुरुषः, रण्डा स्त्री, रण्डमन्तःकरणम् । त्रयमपि स्वसंबन्धिशून्यमेवमुच्यते । तमेस्तने तण्डः ऋषिः । वितण्डा तृतीयाया। गमेः गण्डः कपोलः । भामि क्रोधे । भाण्डमुपस्करः ॥ कण्यणिखनिभ्यो णिवा ॥ १६९ एभ्यो डः प्रत्ययो भवति स च णिवा । कण अण शब्दे । काण्डः शरः .फलसंघातः पर्व च । कण्डं भूषण पर्व च । आण्डः मुष्क: अण्डः स एव योनिविशेषश्च । खनूग अवदारणे । खाण्डः कालाश्रयो गुडः । खण्डः इक्षुविकारोऽन्यः । खण्डं शकलम् ॥ कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् ॥ १७० ॥ एभ्यः कित् डः प्रत्ययो भवति कुछ शब्दे । कुडः घटः हलं च । गुंडशब्दे । गुडः गोलः इक्षुविकारश्च । गुडा सन्नाहः । हुंक दानादनयोः । हुडः मूर्खः मेषश्च । णी भापणे । नीडं कुलायः । कुणत शब्दोपकरणयोः । कुण्डं भाजनम् जलाधारविशेषश्च । कुण्डः भर्तरि जीवति जारेण जात: अपट्विन्द्रियश्च । तुणत् कौटिल्ये । तुण्डं मुखम् । पुणत् शुभे । पुण्डः भिन्नवर्णः । मुणत प्रतिज्ञाने । मुण्डः परिवापितकेशः । शुनत् गतौ । भुण्डा सुरा इस्तिहस्तश्च । आदिग्रहणाइन्येभ्योऽपि भवति ॥ ऋस्तव्यालिह्यविचमिवामियमिचुरिकुहेरडः ॥ १७१ ॥क गती। अरडः तकः । सं गतौ सरडः भुजपरिसर्पः तरुश्च । प्लवनतरणयोः । तरडः वृक्षजातिः । व्यग् संवरणे । व्याडः दुःशील: C त्रिः पशः भुजगश्च । लिहीं आस्वादने । लेहडः श्वा चौर्यग्रासी च । अव रक्षणादौ । अबडः क्षेत्रविशेषः । चमू अदने । चमडः पशुजातिः। टु वमू उद्गिरणे । वमड: लूनाजातिः । यम उपरमे । यमडो बनस्पतिः युगलं च । चुरण स्तेये । चोरडः चोरः । कुहणि विस्मापने । कुहडः उन्मत्तकः ॥ विहडकहोडकुरडकेरडक्रोडादयः ॥ १७२ ॥
जर