________________
देवः ॥ समानामर्थेनैकः शेषः ।। ३ । १ । ११८ ॥ सहोक्तौ गम्यायामन्ये निवर्त्तन्ते ॥ स्यादावसङ्ख्येयः ॥ ३ । १ । ११९॥ सर्वस्मिन् स्यादौ विभक्तौ तुल्यरूपाणां सहोक्तावेकः शिष्यते न तु सङ्ख्येयवाची । इति वैकशेषे द्विवचने देवौ । बहुवचने देव जसू इति स्थिते ॥ अत आः स्यादौ जस्भाम्ये ॥ १|४|१|| लुगस्यादेत्यपदे । इत्यस्यापवादः । देवाः ॥ समानादमोऽतः ॥ १ । ४ । ४६ || स्यादेर्लुक् स्यात् । देवम् | देवौ ॥ शसोऽता सश्च नः पुंसि ॥ १ । ४ । ४९ ।। शसोऽता सह पूर्वसमानस्य दीर्घस्तत्सन्नियोगे च पुंसि सो नः ॥ देवान् ॥ टाङसोरिनस्यौ । १ । ४ । ५ ॥ आत्परयोः । देवेन । देवाभ्याम् | ३ || भिस ऐस् ॥ १ । ४ । २ । आत्परस्य स्यादेः || देवैः । ऐस्करणं सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषाया अनित्यते गमकम् । तेनातिजरसैः ॥ ङेङस्योर्यातौ ॥ १ । ४ । ६ ।। आत्परयोः ।। देवाय || एदूबहुस्भोसि || १ । ४ । ४ । अतः स्यादौ । देवेभ्यः । २ । देवात् । देवस्य । देवयोः ॥ २ ॥ ह्रस्वापश्च ।। १ । ४ । ३२ ॥ ह्रस्वान्तादावन्तात् स्त्रीदुदन्ताच्च परस्यामो नाम् स्यात् ॥ दीर्घो नाम्यतिसृचतसृव्रः ॥ १ । ४ । ४७ ।। पूर्वसमानस्य । देवानाम् । अबू इति प्रतिषेधानकारव्यवधानेऽपि दीर्घः । प श्वानाम् । देवे | देव सु इयत्रैत्वे कृते ॥ नाम्यन्तस्थाकवर्गात्पदान्तः कृतस्य सः शिड्नान्तरेऽपि ॥ २ । ३ । १५ ।। कृतस्थस्य वा षः स्यात् । देवेषु । शिटा नकारेण चेति प्रत्येकं वाक्यपरिसमाप्तेर्नेह । निंस्से । शिग्रहणेनैव सिद्धे नकारोपादानं मस्थानानुस्वारव्यवाये निषेधार्थम् । पुंसु । सुहिन् । पदमध्ये किम् । दधिसेक् ॥ वृस्यन्तोऽसषे ॥। १ । १ । २५ ।। परार्थाभिधायी समासादिर्वृत्तिस्तस्या अन्तः पदं न स्यात् । सस्य पत्वे तु पदमेव । इति सेक् शब्दे सस्य पदादित्वम् || अदेतः स्यमोर्लुक् ॥ १ । ४ । ४४ ॥ आमन्त्र्यवृत्तेः । हे देव । स्यादेशत्वेनैवामोऽपि लुकसिद्धी पृथग्वचनं अम एवादेशस्य लुगिति नियमार्थम् । तेन कतरत् इत्यादि सिद्धम् । एवं जिनादयः । सर्व, विश्व, उभ, उभयद्, अन्य, अन्यतर, इतर, डतर, डतम, स्व, त्वत्, नेम, समसिमौ सर्वाथों, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यव