________________
हे मप्रभा॥ ९॥
स्वरे परे स्याताम् । अवर्णातु परयोर्व्यारुश्वर्जे स्वरे परेऽस्पष्टौ वा स्याताम् ॥ पटवु २ । असावु २ । कयुँ २ । भोयंत्र २ । इत्यादि । पटविह ३ | तहि । ३ ॥ अह्नः ॥ २ । १ । ७४ ॥ पदान्ते रुः स्यात् । स चासन् परे स्यादिविधौ च पूर्वस्मिन् । दीर्घाहा निदाघः । अहोभ्याम् ॥ रो लुप्यरि ।। २ । १ । ७५ ॥ पदान्तेऽहोरेके परे स्यादेर्लपि सत्यां रः स्यात् ।। रुत्वापवादः । अहरधीते अहर्दत्ते । लुपीति फिम् । हे दीर्घाहोऽत्र । अरीति किम् । अहोरूपम् ॥ ॥ रो रे लुग्दीर्घश्चादिदुतः ॥ १ । ३ । ४१ ।। अनु । पुना रमते । अग्नी रथेन । पटू राजा । अन्विति किम् । मनोरथः ।। ढस्तड्ढे ।। १ । ३ । ४२ ॥ तन्निमित्ते दे ढस्यानु लुक् दीर्घश्वादिदुतः । माढिः । लीढम् । गूढम् । तड्ढे किम् । मधुलिड् ढौकते ॥ तदः सेः स्वरे पादार्था ॥ १ | ३ | ४५ ॥ लुक् स्यात् । नियतपरिमाणमात्राक्षरपिण्डः पादः । सैष दाशरथी रामः । सा चेत् पादपूरणीति किम् । स एष भरतो राजा || एतदश्च व्यञ्जनेऽनग्नञ्समासे ॥ १ । ३ | ४३ ॥ तदः सेलुक् स्यात् । एष दत्ते । स लाति । अननसमासे किम् । एषकः कृती । सको याति । अनेषो याति । असो वाति ।। " संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजय सिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धि विजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपोगच्छाचार्य श्रीविजयनेमिसूरिविरचितायां हेमप्रभायां स्यादिसन्धिः ॥
॥ अथ स्वरान्ताः पुल्लिङ्गाः ॥
॥ अधातुविभक्तिवाक्यमर्थवन्नाम ।। १ । १ । २७ ।। शब्दरूपम् । इति नामत्वे ततः सौ रुत्वे विसर्गे च
स्वरान्ताः
पुल्लिङ्गाः
॥ ९ ॥