________________
च वा॥१५०॥चिरेष्टिदिण्टः प्रत्ययश्चर इति चास्यादेशो वा भवति । चिरिष्टी चरिण्टी च प्रथमवयाः स्त्री ॥तृकृपि* कम्पिकृषिभ्यः कीटः॥१५॥ एभ्यः किदीटः प्रत्ययो भवति । तृप्लवनतरणयोः । तिरीट कूलवृक्षः मुकुटं वेष्टनं च
। कत् विक्षेपे। किगेट मुकुट हिरण्यं च । कुपौर सामर्थे । कृपीटं हिरण्यं जलं च । कपुङ चलने । कम्पीटं कम्प: कर्म च । कृषी विलेखने । कृषीटं जलम् ॥ खओररीटः॥ १५२ ॥ खजु गतिवैकल्ये इत्यस्मादरीरः प्रत्ययो भवति । खबरीट: खाना || गृजवृभृभ्य उट उडश्च ॥१५३॥ एभ्य उट उडच प्रत्ययौ भवतः। भिन्नविभक्तिनिर्देश उटस्योत्तरत्रानुवृत्यर्थः । अप्रकृतस्यापि उडस्य विधानमिह लाघवार्थम । गृश् शब्दे । गरुटः गरुडश्च गरुत्मान् । जन् जरसि । जरुट: जरुडश्च वनस्पतिः । दृश विदारणे । दरुटः दरुडश्च विडाळ । गश वरणे। वरुटः वरुडश्च मेषः । भृश भजने च । भस्टः भरुडश्च मेष एवं ॥ मझेमकमुकौ च ॥ १५४ ॥ मकुमण्डने इत्यस्मात् उटः प्रत्ययो मक मुक इत्यादेशी चास्य भवतः । मकुटः मुकुटश्च किरीट॥नकुटकुक्कुटोत्कुरुटमुरुटपुरुटादयः ॥ १५५ ॥ एते उटप्रत्ययान्ता निपात्यन्ते । नृतेः कश्च । नर्कट: बन्दी । कुकेः कोऽन्तश्च । कुक्कुटः कुकवाकर। उत्पूर्वात कृगः कुर च । उत्कुरुटः कचवरपुनः । मुरिपुर्योर्गुणाभावश्च । मुरुटः यत् वेण्यादिमलमृतकर्तुं न शक्यते । पुरुटः जलजन्तुः। आदिशब्दात् स्थपुटादयोऽपि भवन्ति ॥ दुरो द्रः कूटश्च दुर च ॥ १५६ ॥ दुरपूर्वात् दृणातेः किट्ट उटश्च प्रत्ययो दुर्चास्यादेशो भवति । दुर्दुरूटः दर्मुखः । दुद्रुटः अदेशकालवादी ॥ बन्धेः॥ १५७ ॥ बन्धंश् बन्धने इत्येतस्मात् किदूट प्रत्ययो भवति : वधूटी प्रथमवयाः स्त्री ॥ चपेरेटः॥ १५८ ॥ चप सांत्वने इत्यस्मादेटः प्रत्ययो भवति । चपेटः चपेटा वा हस्ततलाहतिः ॥ ग्रोणित ॥ १५९ ॥ व निगरणे इत्यस्मात् णिदेटः प्रत्ययो भवति । गारेटः ऋषिः ॥ कृशक शाखेरोटः ।। १६० ॥ एभ्यः ओट प्रत्ययो भवति । डु कंग करणे । करोटः भृत्यः शिरः कपालं च । करोटं भाज.